SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ [३१७ 10 सप्तमः सर्गः । बकासुरोपद्रवः ॥] प्रत्येकं कुलदेवीनामीपुर्जानुस्थिताः पुरः । उपायाचितलक्षाणि पुरीवृद्धपुरंध्रयः ॥४३१।। नैमित्तिकानिमित्तानि ग्रहान्मौहूर्तिकाः पुनः । शकुनं शकुनज्ञाश्च सर्वेऽप्यालोकयंस्तदा ॥४३२।। नृपश्च पौरमुख्याश्च बद्धाञ्जलिपुटाः समम् । धूपमुत्क्षिप्य निक्षिप्य दृशमूर्ध्वमथाभ्यधुः ॥४३३॥ यक्षो वा यदि वा रक्षो योऽस्ति क्रद्धः पूरी प्रति । अस्मास्वाज्ञाविधेयेषु साम्प्रतं स प्रसीदतु ॥४३४॥ अथाकस्मान्मषीकालः कालरात्रिसहोदरः । पिङ्गाक्षिचिकुरः क्रूरः कश्चित्तैर्ददृशे दिवि ॥४३५।। भीतास्ते कम्पमानाङ्गास्तमूचुः प्रश्रयाञ्चिताः । कोऽसि ? ब्रूहि महाभाग ! देवो वा दानवोऽथवा ॥४३६।। असौ संहारसंरम्भः समारेभे कुतस्त्वया ? । तव नेतुं विना मन्तुमन्तं जन्तून्न साम्प्रतम् ॥४३७॥ क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणे: कारणं किन्तु ? यद्भ्राम्यति नभोऽङ्गणे ॥४३८॥ दधत्यार्तं सुखीकर्तुं कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥४३९॥ ततस्त्वमपि विश्वस्य शल्यमुद्धर्तुमर्हसि । एतत्कर्तुमकर्त्तव्यं किं पुनस्तव युज्यते ? ॥४४०॥ एवमुच्चस्तरामुक्तः सोऽभ्यधत्त नभःस्थितः । अरे ! विद्याधराधीशं मां जानीत बकाभिधम् ॥४४१॥ रत्नशैलाभिधे शैले पुरीसंविधवर्तिनि । दुःसाधा साधयाञ्चक्रे मया विद्याऽद्य राक्षसी ॥४४२॥ ततः स्वविद्यामाहात्म्यविलोकनकुतूहली ।। पुरीसंहारमधुना विधित्सुरयमस्म्यहम् ॥४४३॥ १. ऐच्छन् । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy