SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१६] 10 [ पाण्डवचरित्रमहाकाव्यम् । देवशर्माब्राह्मणस्य विलापः ॥ कुटुम्बस्यानुकूल्येन प्रातिकूल्यं विधेस्तदा । न किञ्चित्ते विदाञ्चक्रुरेकचक्रानिवासिनः ॥४१८॥ सावित्री नाम तस्यास्ति कलत्रं देवशर्मणः । तया वैनयिकात् (विनयेन) कुन्त्या मनः परवशीकृतम् ॥४१९।। कुन्ती कृष्णासधर्माणं स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ गङ्गादामोदराभिधौ ॥४२०॥ सा तेन सहवासेन विस्मृतात्मनिकेतना । अनेकान् गमयामास मासानेकाहलीलया ॥४२१॥ अन्यदा पवमानस्य तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः स्वैरसञ्चारशालिषु ॥४२२॥ देवशर्मकुटुम्बस्य कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन भिन्नेव हृदयेऽभवत् ॥४२३।। युग्मम् । गत्वाऽथ देवशर्माणं सा जगाद सगद्गदम् । तव वत्स ! कुतोऽमूलमेतद्दुःखं सुदुःसहम् ? ॥४२४॥ अथासौ कथयामास कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्टमतिकष्टमजायत ॥४२५॥ पुरोपरि शिलागुर्वी दर्शिताऽकाण्डविड्वरा । समालोक्यत कल्पान्तपुष्करावर्त्तसोदरा ॥४२६॥ युगान्तज्वलनोपज्ञधूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं पुरीजनमजीजनत् ॥४२७॥ खण्डयन्भूरुहां खण्डान् ववौ चण्ड: समीरणः । कनीयान्बान्धवो यस्य किल कल्पान्तमारुतः ॥४२८।। अदृष्टपरचक्रातिमेकचक्रां पुरीं तदा । भयस्याभिज्ञतां निन्युस्तान्यरिष्टानि सर्वतः ॥४२९॥ अबलाभिश्च बालैश्च प्राणान्तिकभयाकुलैः । भर्तृणां च पितॄणां च चक्रे कण्ठग्रहस्तदा ॥४३०॥ 15 25 १. पुत्री च पुत्रश्चेत्येकशेषे पुत्रौ । २. व्याकुलम् । ३. असौ गाथा (P) पुस्तके न दृश्यते ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy