________________
5
10
15
20
25
३१२]
[ पाण्डवचरित्रमहाकाव्यम् । हिडम्बौपकारपरायणता ॥
ईत्थमत्याहितं तेषां विलोक्याकुलमानसा । कान्तारार्णवमालोड्य तवाभ्यर्णमुपागमम् ॥३६६॥ इति वृत्तान्तमावेद्य समुत्प्लुत्य विहायसा । सा द्रौपदीमुपादाय पाण्डवानामुपानयत् ॥३६७॥ स्रोतस्विनीररण्यानीस्ते बहूंश्च शिलोच्चयान् । हेलयैव हिडम्बायाः साहाय्येन ललङ्घिरे || ३६८॥ अथाधमर्णमन्याभ्यां हिडम्बायाः पदे पदे । निवेश्य कुन्तीकृष्णाभ्यामभ्यधीयत सा रहः ॥ ३६९॥ भद्रे ! तवोपकाराणामियत्तैव न विद्यते । आवां त्वस्यामवस्थायां किं ते प्रत्युपकुर्वहे ॥ ३७० ॥ तथाऽपि ब्रूहि कल्याणि ! किञ्चिदीप्सितमात्मनः । काचिदानृण्यकरणाद् यथा स्यात्प्रीतिरावयोः ॥३७१॥ अथोवाच हिडम्बाऽपि कुन्तीं प्रति कृताञ्जलिः । विश्वोपकारिणि ! क्वाहं ? क्व च त्वं पाण्डवप्रसूः ? ||३७२ || किं तवोपकरिष्यन्ति राक्षस्यो देवि ! मादृश: ? । उपकुर्वीत किं नाम दरिद्रश्चक्रवर्तिनः ? ॥३७३॥ उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । केनाप्युपकृता किंनु लोकं प्रीणाति चन्द्रिका ? ॥ ३७४॥ विज्ञापयामि तदपि स्वं किञ्चन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया वव्रे वृकोदरः ||३७५॥ तत्प्रसीद तथाऽऽधेहि यथा स्यादेष मे वरः । एवं सम्बन्धमाधाय स्वस्य मां कुरु किङ्करीम् ॥३७६॥ इत्याख्याते तया कुन्ती स्नुषाया मुखमैक्षत । साऽपि विज्ञा कृतज्ञा च जगाद मुदितानना ॥३७७॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा ? ॥३७८||
१. अनर्थम् । २. पर्वतम् । ३. पूर्वमनुपकृताः ।