________________
[३११
सप्तमः सर्गः । पाण्डवानाम् शोकः हिडम्बायाः साहाय्यं च ॥]
प्रियोपस्थायिनं मार्गमविदन्ती मनागपि । यूथच्युतकुरङ्गीव शून्यं बभ्राम सा वने ॥३५३॥ निःशूकं दन्दशूकेन सा व्रजन्ती यदृच्छया । दुष्टेन दष्टुमारब्धा तमप्येवमवोचत ॥३५४॥ कायेन मनसा वाचा चेत्पञ्चापि न वञ्चिताः । मया कदापि प्रेयांसः सर्प ! सर्प तदान्यतः ॥३५५॥ इत्याक्षिप्तस्तया मक्षु ययौ सोऽपि भुजङ्गमः । वाचस्पतेरपि सतीमहिमा नहि गोचरः ॥३५६॥ यदुष्णकिरणः कृष्णां सती पादैरुपास्पृशत् । तन्मन्ये सद्य एवायं मज्जति स्म तदाम्बुधौ ॥३५७॥ अथाऽऽचक्राम दिक्चक्रमुच्छृङ्खलतमं तमः । सर्वातिशायी शोकश्च पाञ्चालदुहितुर्मनः ॥३५८॥ प्रेयोभिर्विप्रयुक्तायाः कथं यास्यति यामिनी ।। एषा ममेति सा चिन्ताक्रान्ता यावदजायत ॥३५९।। हिडम्बां पुरतस्तावदालोकत कृताञ्जलिम् । व्यानशे च प्रमोदेन सुधासेकसनाभिना ॥३६०॥ फुल्लत्कपोलफलका बभाषे सा हिडम्बया । आर्ये ! त्वद्विरहात्प्रापुः पाण्डवाः शोकताण्डवम् ॥३६१॥ यदान्विष्य वनान्तस्त्वां ते कुत्रापि न लेभिरे । ततो धूलीविलिप्ताङ्गा वसुधां परिरेभिरे ॥३६२॥ तेषां सम्प्रति बाष्पाम्बुधाराधोरणिभिः पुरः । जातानि जानुदघ्नानि पल्वलानि भुवस्तले ॥३६३॥ श्वापदैरापदं रात्रौ द्रौपदी नेष्यते ध्रुवम् । . तां विना जीवितेनापि पर्याप्तमधुनाऽमुना ॥३६४॥ इति निश्चित्य ते सन्ति प्राणत्यागविधित्सवः ।। जीविते निस्पृहा जज्ञे पृथाऽपि तनयाऽनुगा ॥३६५॥ युग्मम् ।
१. निर्दयम् क्रिया विशेषणमेतत् । २. गच्छ ।