________________
5
10
15
20
25
३०६ ]
[ पाण्डवचरित्रमहाकाव्यम् । भीमहिडम्बर्योयुद्धम् ॥ यावज्जीवं त्वमेवासि जीवितेशस्तथापि मे । तद्यदा रोचते नाथ ! कुरु मामात्मसात्तदा ॥२८७॥ किं त्वेतामधुना तावद्विद्यामादत्स्व चाक्षुषीम् । यया ते भवितोद्योतस्तामसीष्वपि रात्रिषु ॥ २८८॥ सैवमाख्याय भीमाय सम्मदात्तामदात्तदा । तस्मै पठितमात्रैव सा प्रकाशमसूत्रयत् ॥२८९॥ अत्रान्तरे ददत् त्रासमट्टहासेन भीषणः । आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् ॥२९०॥ वेपथुस्वेदरोमाञ्चैर्यामिमागम्य कामुकीम् । प्रसभं सोऽभ्यधादेनां भ्रकुटीविकटाननः ॥ २९१॥ आः पापे ! प्रौढकंदर्पाकुले ! कुलकलङ्किनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ २९२ ॥ त्वां विधायेन्धनं पूर्वं जाठरस्याशुशुक्षणेः । ततोऽमूनाहुतीभावं लम्भयिष्यामि मानवान् ॥२९३॥ एवमाक्षिप्य कोपेन रक्तचक्षुः स राक्षसः । दूराच्चपेटामुत्पाट्य दधावे सोदरां प्रति ॥२९४॥ ततस्तमाह माहात्म्यभूमिर्भीमः ससौष्ठवम् । निरागसं निजां यामिमरे ! मोघं जिघांससि ॥ २९५ ॥ रक्षोवंशानुरूपं ते यद्भगिन्यपि हन्यते ।
उपेक्षितुं क्षमे साक्षान्न स्त्रीहत्यामहं पुनः ॥ २९६॥ उत्तिष्ठ निष्ठुरं कर्म मुञ्चेदं किञ्चिदायुधम् । करे कुरु कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ २९७॥ इति क्रोधादधिक्षिप्तस्तामत्याक्षीत्स राक्षसः । एकं पादपमुद्यम्य भीमं च प्रत्यधावत ॥ २९८॥ भीमोऽपि गतभीरेकं विधायाऽऽयुधमङ्घ्रिपम् । जाग्रतु भ्रातरो मेति तूष्णीको युद्धमादधे ॥ २९९॥
१. हर्षात् । २. यमराजम् । ३. अग्नेः ।