________________
[३०५
10
सप्तमः सर्गः । हिडम्बाऽऽनुरागः ॥]
यज्जातोऽसि महाबाहो ! मम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः प्रावर्तत जवात्ततः ॥२७४॥ तदाधेहि प्रसादं मे पाणिपीडनकर्मणि । सत्योपयाचिताः सन्तु सकलाः कुलदेवताः ॥२७५॥ तस्मान्मा स्म विलम्बस्व पुरा नन्वेति राक्षसः । त्रपां विहाय मां रात्रिचरी सहचरीं कुरु ॥२७६।। मयि सहचारिण्यामसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति प्रबला वनवैरिणः ॥२७७।। अथाभाषिष्ट भीमस्तां भद्रे ! प्रेमार्द्रमभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या त्वादृग्नारी स्वयंवरा ॥२७८॥ सुगात्रि ! परमत्रार्थे कारणं मे निशम्यताम् । ममैते बान्धवाः सन्ति चत्वारोऽपि शयालवः ॥२७९।। ऋद्धा गुणैरियं वृद्धा या तु स्वपिति निर्भरम् । जानीहि जननीमेनामस्माकं स्मेरलोचने ! ॥२८०॥ एषा शिरीषमृद्वङ्गी सुखं सोषुप्यते तु या ।। पञ्चानामपि साऽस्माकं प्राणेभ्योऽपि प्रिया प्रिया ॥२८१॥ एकयाऽपि सधर्मिण्या साधारण्याऽनया वयम् । कृतार्थाः पुरुषार्थेषु निखिलेष्वपि निर्मिताः ॥२८२॥ अनुमन्यामहे नान्यां प्रेयसीं श्रेयसीमपि । प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥२८३॥ उपन्यस्तस्त्वया यस्तु लोभः साहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां दोर्दण्डानां त्रपाकरः ॥२८४॥ बाह्यसाहाय्यसापेक्षं क्षणं वो मा स्म भून्मनः । इत्यस्मासु स्वदोर्वीर्यनिष्ठं ज्येष्ठस्य शासनम् ॥२८५।। इति सा प्रतिषिद्धाऽपि सदैन्यं पुनरभ्यधात् । मामात्मशरणां स्वामिन् ! यद्यपीथमपाकृथाः ॥२८६॥
15
20
25
१. अङ्गीकुर्महे । २. दर्शितः ।