________________
३०४]
10
[पाण्डवचरित्रमहाकाव्यम् । वनवासे भीमस्य हिडम्बा-मेलापः ॥ इत्युच्चैविलपन् भीमो भीषणाकारधारिणीम् । एकां युवतिमायान्तीं पिङ्गलाक्षीमुदैक्षत ॥२६१॥ भीमस्याभ्यर्णमभ्यागाधुवतिः सा यथा यथा । रूपं प्रकाशयामास मनोहारि तथा तथा ॥२६२॥ भीमः समीपमायातां तामुवाच सुलोचने ! ।। काऽसि भीष्मं च सौम्यं च रूपमप्यकृथाः कथम् ? ॥२६३॥ बभाषे साऽपि सुश्रोणिः सुभग ! श्रूयतां त्वया । अस्ति दत्तजगड्डिम्बो हिडम्बो नाम राक्षसः ॥२६४॥ इदमस्याख्यया ख्यातं हिडम्बवनमुत्कटम् । नास्मिन् मनुष्यजातीयः कश्चित्सञ्चरते पथा ॥२६५॥ कथञ्चिदैवदुर्योगादेतस्यां वनसीमनि ।। नरः शूरोऽपि यद्येति राक्षसाऽनेन भक्ष्यते ॥२६६॥ अस्य चाहमहङ्कारमन्दिरस्य सहोदरा । अनूढाऽस्मि हिडम्बेति बन्धुगेहनिवासिनी ॥२६७।। ममाप्यस्ति क्रमाऽऽयाता विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे बन्धुर्मामभ्यधादिदम् ॥२६८॥ अधुना मानुषो गन्धः क्षुधं मे बोधयन्नयम् । प्रियंभविष्णुना॑णस्य कुतोऽप्येति सहोदरे ! ॥२६९॥ तन्मानवानवेश्यैतान्कुतोऽप्यानय सत्वरम् । येनेयं चिररात्राय शममभ्येति मत्क्षुधा ॥२७०॥ तदहं दहनज्वालालोले कृत्वा विलोचने । विधित्सुर्बान्धवादेशं देशमेनमुपागमम् ॥२७१॥ वने मानवसङ्घातमेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं बुभुक्षोपशमक्षमम् ॥२७२॥ विलोक्य त्वां च कन्दर्परूपदर्पापहं पुरः । विस्मृत्य भ्रातुरादेशं स्मराऽऽदेशे स्थिताऽऽस्म्यहम् ॥२७३॥
20
25
१. डिम्बः युद्धम् ।