________________
सप्तमः सर्गः । भीमस्य विलापः ॥ ] उपेयिवानुपादाय पयः पुटकिनीपुटे । अक्षामनिद्रमद्राक्षीत्स्वकुटम्बं वृकोदरः ॥ २४८ || तत्तथाभूतमालोक्य शोकेन विवशीकृतः । विललाप विमुच्यापः स बाष्पाविललोचनः ॥२४९॥ पल्यङ्कं यः सतूलीकमध्युवास नृवासवः । धिग्विधिं सोऽधुनाऽध्यास्ते स्थपुटं स्रस्तरं भुवि ॥२५०॥
पुरोपतल्पं यस्यासीन्निःसीमो गीतनिस्वनः । वर्तते साम्प्रतं तस्य भैरवः फैरवो रवः ॥२५१॥ कस्तूरीसंस्तुतैः पूर्वं यस्याभूच्चन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं पांशुभिर्मार्गसम्भवैः ॥ २५२ ॥ दृष्टौ कष्टेन यस्याङ्घ्री सेवायातैर्नृपैरपि । नरव्याघ्रस्य जिघ्रन्ति श्रृगालास्तस्य साम्प्रतम् ॥२५३॥ पूर्वं व्योम्नि विमानेन यो बभ्राम सविभ्रमम् । रङ्कस्वापं स्वपित्येवं कान्तारे सोऽयमर्जुनः ॥ २५४॥ द्विषद्यशस्तुषारांशुराहवो यस्य बाहवः ।
सहते सोदरादेशात्क्लेशं सोऽपि कपिध्वजः ॥ २५५ ॥ एतौ सदापि नः क्रोडक्रीडादुर्ललितौ पुरा । हा शयाते कनीयांसौ दरिद्रपथिकाविव ॥ २५६॥ पाण्डवानामियं माता पत्नी पाण्डुमहीपतेः । क्रमचङ्क्रमणक्लान्ता शेते कुन्ती हहा ! भुवि ॥ २५७॥ कैथं सहिष्यते क्लेशं नासौ यस्यास्तनूरुहाः । वयं प्रोद्दामशौण्डीर्यप्रपञ्चाः पञ्च पाण्डवाः ॥२५८॥ इयं निद्रायते भूमौ कष्टं द्रुपदनन्दिनी । एतामवस्थामेतस्याः पश्यन् भीमोऽपि जीवति ॥ २५९ ॥ अरण्यपान्थैरस्माभिः पश्यत प्रेयसी निजा । असौ कान्तारसञ्चारशिक्षामध्याप्यते हहा ! ॥२६०॥
१. बन्धुसमीपे इति शेषः । २. विषमम् । ३. वक्रोक्तिरियम् ।
[ ३०३
5
10
15
20
25