________________
[३०७
10
सप्तमः सर्गः । युद्धे भीमस्य मूर्छा ॥]
चण्डौजसा हिडम्बेन निर्विलम्बं बलीयसा । प्रहतः प्रसभं भीमः क्षणाद् वृक्षेण वक्षसि ॥३००॥ पाण्डवोऽपि हिडम्बाय ददौ पीडां प्रहारतः । यया तत्प्रथमं निन्ये सोऽपि मूरिसज्ञताम् ॥३०१॥ मूर्छाविरामे स क्ष्वेडामव्रीड: क्रीडयाऽकरोत् । यया युधिष्ठिरादीनामभून्निद्रादरिद्रता ॥३०२॥ कुन्ती पुरस्तादुद्वीक्ष्य हिडम्बामिदमभ्यधात् । का त्वं पुत्रि ! कथं चात्र ? तथ्यं मे कथ्यतामदः ॥३०३।। साऽप्यस्यै निजमावेद्य सर्वं वृत्तान्तमादितः । आख्याति स्म तनूजस्ते युध्यते रक्षसा सह ॥३०४॥ उच्छलत् सिंहनादेन रक्षसा प्रहतो हृदि । धाव्यतां देवि ! पुत्रस्ते हहा पतति मूच्छितः ॥३०५।। इत्युक्ते धर्मपुत्राद्या भीमाभ्यर्णमुपाययुः । तं च मूर्छालमालोक्य जननी पर्यदेवत ॥३०६।। अस्माकं मार्गपङ्गेनां वोढा त्वं प्रौढविक्रमः । दुष्टेन रक्षसा वत्स ! गमितः कामिमां दशाम् ? ॥३०७॥ निरालम्बकुटुम्बस्य करालम्ब ! त्वया विना । दूरात्पानीयमानीय तृषं नः कोऽपनेष्यति ॥३०८॥ कुसुमानि समानीय वन्यान्येतां तपस्विनीम् । नव्यधम्मिल्लबन्धेन वधूं कोऽलङ्करिष्यति ? ॥३०९॥ तदह्राय समुत्थाय देहि प्रतिवचो मम । नयास्मान्पुरतोऽध्वानं पुरोऽभ्येति रिपोश्चमूः ॥३१०॥ इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे भीमं प्रगुणमर्जुनः ॥३११॥ अथोत्थाय नियुद्धाय स्पृहयालुर्वकोदरः । प्रति प्रत्यर्थिनं धावन्बभाषे ज्येष्ठबन्धुना ॥३१२॥ १. अशोचत् ।
15
20
25