________________
प्रथमः सर्गः । गाङ्गेयस्य नौकापतिसमीपगमनम् ॥] तस्मान्निःशेषमागम्य सोऽगमन्नौपतेर्गृहम् । विहितस्वागतश्चैनमवदन्नृपनन्दनः ॥१८०॥ महाभाग ! महाभाग्यैरर्थी शान्तनुराप्यते । इत्थं निराकृथा यत्तत्सुष्ठु नानुष्ठितं त्वया ॥ १८९॥ अवदन्नौपतिः प्रीतः कुमार ! शृणु कारणम् । शान्तनोरपि येनास्मि प्रार्थनाभङ्गहेतवे ॥१८२॥ सोऽन्धकूपे क्षिपेत्पुत्रीं ससापत्न्ये ददीत यः । वसन्त्याः शान्तनोर्गेहे सपत्नोऽस्यास्त्वमेव हि ॥१८३॥ सपत्नीतोऽपि तज्जातं नितान्तमतिरिच्यते । कोशातक्याः फलेष्वेव रसः परिसमाप्यते ॥ १८४ ॥ नररत्न ! सपत्नोऽसि येषां तेषां कुतः सुखम् । जाग्रत्यसहने सिंहे सुखायन्ते कियन्मृगाः ? ॥१८५॥ अप्रसन्नः प्रसन्नो वा भवान्येषां द्वयेऽपि ते । आपदां पदमाद्याः स्युः सम्पदामपरे पुनः ॥ १८६॥ कुमार ! मम दौहित्रो यस्तु भावी कथञ्चन । दूरे महोदयस्तस्य समीपे विपदः पुनः ॥१८७॥ त्वां समुत्सृज्य राज्यश्रीः श्रीमन्कि वृणुते परम् ? । हित्वा वार्धिं महासिन्धुः किं तल्लमुपसर्पति ॥ १८८ ॥ यः सर्वकमनीयायाः श्रूयते जनकः श्रियः । प्रजानुरागजलधिः सोऽपि त्वय्येव जृम्भते ॥ १८९॥ स्नेहतो दुहितुः पश्यन्नायतौ दुःखमायतम् । प्रणयातिक्रमं तेन कृतवानस्मि ते पितुः ॥ १९०॥ जगाद शान्तनोः सूनुर्मातामह ! महान्भ्रमः । तवैष यदिदं वाक्यं तुच्छोचितमुदाहरः ॥१९१॥ भिदेलिमा हि प्रकृतिः कुरुवंशान्यवंशयोः । भवेत्स्वभावो नह्येकः कलहंसबकोटयोः ॥ १९२॥ सापत्न्यमिति सम्बन्धो विवेकिनि कुरो: कुले । अभूतपूर्व एवायं नैव विज्ञायते क्वचित् ॥१९३॥
१. कासारम् ।
[ १७
5
100
111
15
20
25