SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २९८] [पाण्डवचरित्रमहाकाव्यम् । पुरोचनस्य क्रूरता ॥ पञ्चापि चन्द्रशालायां निषण्णास्ते नभोगतैः । नक्षत्रैः क्षत्रमार्तण्डा निशि निश्चिक्यिरे पथः ॥१८३॥ कुन्ती शुभाय पुत्राणामाहारैः सुमनोहरैः । दीनानाथजनं सर्वं प्रीणयामास सर्वतः ॥१८४॥ अर्चामभ्यर्चयामास श्रीशान्तेः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं ध्वस्तपापं जजाप च ॥१८५॥ विश्वस्तं बन्धुभिः सार्धं दृष्ट्वा हृष्टं युधिष्ठिरम् । पूर्णामेव निजां मेने रुचिं पापः पुरोचनः ॥१८६॥ अथ कृष्णचतुर्दश्यां कस्यांचित्पञ्चभिः सुतैः । स्नुषया चैकया साकं वृद्धा काचिदुपाययौ ॥१८७॥ पञ्चपुत्रपवित्रां च वृद्धामालोक्य तां पृथा । आत्मतुल्यतया मेने भगिनीमिव सोदराम् ॥१८८॥ मधुरस्निग्धमाहारं तां वृद्धामृजुमानसा । सात्मजां भोजयामास कुन्तीदेवी सगौरवम् ॥१८९॥ आमृशद्भिर्मुहुस्तुन्दं सुतैः सौहित्यशालिभिः । सार्धं वृद्धाऽऽध्वना खिन्ना तत्रैवाशेत निःसहा ॥१९०॥ दुनिमित्तैस्तमी भीमस्तां सम्भाव्य भयङ्करीम् । सकुटुम्बं सुरङ्गायां युधिष्ठिरमतिष्ठिपत् ॥१९१॥ निर्विलम्बं कुटुम्बेन समं जग्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ द्वारि सञ्चारिलोचनः ॥१९२॥ द्वारतो दीपयन्नुच्चैरर्चिष्मन्तं पुरोचनः । उन्निद्रमनसा तेन दुष्टो दृष्टः स्वचक्षुषा ॥१९३॥ धूमैचूंमध्वजो यावन्नालिङ्गति नभोऽङ्गणम् । तस्य क्रोधानलस्तावज्ज्वालाजालममुञ्चत ॥१९४॥ ततः पुरोचनं धृत्वा तं केशेषु विसंस्थुलम् । आचकर्ष हठेनासौ हरिणं हरिणारिवत् ॥१९५॥ १. तृप्तिशालिभिः । २. रात्रिम् । ३. 'सचक्षुषा' धीमता इत्यर्थः । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy