SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ म् ॥ [२९७ सप्तमः सर्गः । सुरङ्गानिर्माणम् ॥] ततश्च दग्धान् विज्ञाय कोऽप्यन्विष्यति नैव नः । तदेवमेकमस्माकं श्रेयः स्यादपरं त्विदम् ॥१७०॥ पाण्डवेयाः प्रचण्डेन ज्वालाजटिलमूर्तिना । सुखं मम प्रपञ्चेन दन्दह्यन्ते स्म वह्निना ॥१७१॥ मुदं मेदस्विनीमेतां हृदि धत्ते सुयोधनः । गमयामः सुखेनेत्थं वयं द्वादशवत्सरीम् ॥१७२॥ युग्मम् । निर्गमोऽस्तु सुरङ्गायाः प्राच्यां द्वैतवनाध्वना । सम्प्रत्यालोक्यतां कोऽपि सुरङ्गाखनकः पुनः ॥१७३।। इत्युक्ते धर्मपुत्रेण भूयोऽवादीत् प्रियंवदः । प्रहितो विदुरेणास्ति खनकः शुनकाभिधः ॥१७४।। अयं तव पितृव्यस्य बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमिरात्मेव वपुरन्तरे ॥१७५।। इत्याख्याय समाहूय नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं भूतलन्यस्तमस्तकः ॥१७६॥ भद्र ! भद्रां सुरङ्गां नः स्वैरचारमनोहराम् । कुरुष्वेति पतिर्भूमेः सप्रसादं समादिशत् ॥१७७।। पुरबाह्यगृहस्यान्तः स्थित्वा सोऽपि प्रतिक्षपम् । दिवाऽन्यत्कर्म कुर्वाणः खनति स्म शनैः शनैः ॥१७८।। अधस्ताद् भीमतल्पस्य बिलद्वारं विधाय सः । निजव्यापारपारीणं स्वं नृपाय न्यवेदयत् ॥१७९॥ अविश्वासाः सविश्वास निर्मुदः समुदं तदा । लोकेभ्यो दर्शयामासुरात्मानं तेऽपि पाण्डवाः ॥१८०॥ प्रतिप्रत्यूषमुत्थाय जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान् विदामास वृकोदरः ॥१८१॥ कुन्त्याश्च याज्ञसेन्याश्च यमयोश्च कनीयसोः । अभ्यासार्थं पृथासूनुः सुरङ्गान्तरदर्शयत् ॥१८२॥ १. क्षिपम् प्रतित्रयपाठोऽपि साधुः, क्षिपाशब्दोऽपि रात्रिपर्यायोऽस्ति कोषे । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy