________________
२९६] [पाण्डवचरित्रमहाकाव्यम् । विदुर संदेशेन पाण्डवैः सुरक्षा कारिता ॥
इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदत्रार्थे पृथिवीनाथ ! मा कृथाः ॥१५७॥ तस्याकर्ण्य विषाकीर्णां गिरमेतां युधिष्ठिरः । सक्रोधैर्बन्धुभिः सार्धं परीक्षामास तद्गृहम् ॥१५८॥ असौ सद्ममयं छद्म तन्निर्णीय गुणार्णवः । मातृभ्रातृकलत्राणां प्रत्येकं मन्त्रमग्रहीत् ॥१५९।। पर्वं भीमोऽभ्यधादार्य ! विदार्य हृदयं रिपोः । आदिश द्रुतमभ्येमि किमद्यापि विलम्बसे ? ॥१६०॥ अर्जुनोऽप्यब्रवीदार्य ! मम लघ्वार्यदर्शितः । पक्षोऽयमुचितो भाति गूढं वा गम्यतेऽग्रतः ॥१६१॥ प्रकाशमेव वा स्वैरं व्योमयात्रैव सूत्र्यते । तव भ्रूक्षेपसापेक्षा विमानानां यतः श्रियः ॥१६२॥ बन्धुभ्यामुद्धतं धीरमुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसाऽवोचदग्रजः ॥१६३॥ वत्सौ ! यच्छौर्यधुर्याणामाकल्पं तदजल्पता(त)म् । दुर्योधनवधे किन्तु सत्यं स्यान्मे मलीमसम् ॥१६४॥ गच्छन्तोऽपि पथिच्छन्नमुच्छन्नानीकसौष्ठवाः । निर्लज्जेन वयं तेन लक्ष्येमहि पदे पदे ॥१६५॥ वशीकृतदिगन्तस्य तस्यानन्तबलौजसः । वयमेकाकिनः पान्थाः स्थाने स्थाने न दुर्ग्रहाः ॥१६६।। न च विद्याबलेनापि गन्तुं सम्प्रति युज्यते । सत्यस्य निकषो ह्येवं न मे प्रादुर्भवेद्धृशम् ॥१६७॥ श्रूयतां तु ममाकूतमवधाय मनोऽधुना । अतिगुप्तेङ्गिताकारैरास्यतेऽत्रैव वेश्मनि ॥१६८॥ यदा स्वामिनिदेशार्थमुत्सहेत पुरोचनः । तदाऽस्माभिरितो गेहान्निर्गन्तव्यं सुरङ्गया ॥१६९॥
15
25
१. योग्यम् । २. नष्टं सैन्यसौष्ठवं येषां ते ।