SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [२९५ सप्तमः सर्गः । विदुरप्रहितदूतस्यागमनम् ॥] सवित्री पाण्डुपुत्राणां दानैकरुचिमानसा । पाणिर्व्यापारयामास दीनोद्धरणकर्मणि ॥१४३।। प्रियेषु सानुरागेषु मनीषितविधायिषु । नोदकण्ठत पाञ्चाली कदाचिन्नृपतिश्रिये ॥१४४॥ इत्थं कुटुम्बसौस्थ्येन सुयोधनगिराऽपि च । अभूत्तत्रैव वासाय स्थिरचेता युधिष्ठिरः ॥१४५॥ हस्तिनापुरसाम्राज्यसपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तैर्जगाम द्वारकां हरिः ॥१४६॥ मातुरुत्कण्ठिता सार्धमात्मजेनाभिमन्युना । सुभद्रा सह कृष्णेन प्रहिता पाण्डूसूनुना ॥१४७।। तानथो सुस्थितंमन्यः पौरानप्यश्रुवर्षिणः । । कथञ्चिदपि सम्बोध्य हास्तिनं प्राहिणोन्नृपः ॥१४८।। अन्यदा द्रुतमभ्येत्य विदुरप्रहितो रहः । अन्वितं भीमपार्थाभ्यां तं जगाद प्रियंवदः ॥१४९॥ देव ! त्वां विदुरः प्राह यदिहोपेयुषा मया । धृतराष्ट्रान्तिकस्थेन रहो दुर्योधनः स्थितः ॥१५०॥ कर्णदुःशासनादीनां मन्त्रेण विगतत्रपः । पुरोचनं ब्रुवन्नेवं निगूढं शुश्रुवे स्वयम् ॥१५१॥ युग्मम् । परिच्छदबहुत्वेऽपि निजत्वेन निरन्तरम् । मह्यं त्वदपरः कश्चित् पुरोचन ! न रोचते ॥१५२॥ भद्र ! त्वमपि जानासि पाण्डवान् मम वैरिणः । जीवत्सु तेषु राज्यं मे गन्धर्वनगरायते ॥१५३॥ वह्वेरुद्दीपनैर्द्रव्यैः सणसर्जरसादिभिः । आचितं जातुषं सौधं विदध्या वारणावते ॥१५४॥ सकुटुम्बमवस्थाप्य विनयात्तत्र कृत्रिमात् । कुर्यास्तं धर्मजं कृष्णचतुर्दश्यां कृशानुसात् ॥१५५॥ सा परं न परिज्ञाता काऽपि कृष्णा चतुर्दशी । ततोऽवधानमाधेयं प्रतिकृष्णचतुर्दशि ॥१५६॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy