________________
सप्तमः सर्गः । पाण्डवानां सुरङ्गायाः निर्गमनम् ॥]
[२९९ तं नीत्वा मुष्टिना मृत्युं स दम्भोलिसनाभिना । प्रदीप्य जातुषागारं चकार द्रुतमग्निसात् ॥१९६।। सोत्कण्ठमानसो वाततनयोऽपि सुरङ्गया । एत्यं सङ्घट्टितः पश्चाज्झटित्येवाग्रजन्मना ॥१९७॥ अचिरेणैव पुंनागा नागलोकोपमाद्विलात् । विनिर्याय प्रयान्ति स्म पथि ते रथवर्जिताः ॥१९८॥ तेषां प्रदीपनोद्योतः पृष्ठतस्तीव्रवेगतः । दिष्ट्या पुरोचनो दग्ध इत्याख्यातुमिवाययौ ॥१९९।। अस्तं नीत्वा तमःस्तोमं तेनालोकेन दर्शितः । हस्तदीपोपमेनैषामध्वा सौध इव ध्रुवम् ॥२००॥ सम्पत्पटकिनीखण्डमार्तण्डाः पाण्डवा इमे । त्वमेतान् किं मुधाऽधाक्षी रे हताश ! हुताशन ! ॥२०१॥ आपन्नार्तिच्छिदाछेकदोर्दण्डाः पाण्डवा इमे । एतान्हन्त दहन्नेवं पुरोचन ! किमाचरः ? ॥२०२॥ दीनानाथसमुद्धारपण्डिताः पाण्डवा इमे । एतांस्ते निघ्नतः कीदृक् सुयोधन ! धनार्जनम् ? ॥२०३॥ त्रैलोक्यत्राणशौण्डीरकोदण्डाः पाण्डवा इमे । अमूनेवं तिरस्कुर्वन्वैधेयोऽसि विधे ! ध्रुवम् ॥२०४॥ परिदेवितवाक्यानि लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः पुरतस्ते प्रतस्थिरे ॥२०५॥ पञ्चभिः कुलकम् । भाग्यराशिरिवामीषामालोकः स तिरोदधे । बन्धुदुर्योधनस्येव प्रादुरास तमश्चयः ॥२०६।। युगपद्ध्वान्तमध्वा च द्वयमेतदुपागतम् । तनोति स्म श्रमाह्वानं तत्सवित्रीकलत्रयोः ॥२०७॥ आलोकशब्दमाधत्तः पुरो भीमकिरीटिनौ । राज्ञः प्रथमपान्थस्य तथाऽप्यस्खलतां क्रमौ ॥२०८।।
१. वज्रसदृशेन । २. जन्मनः प्रतिद्वय । ३. पुटिकिनी-पद्मलता पद्मसमूहो वा । ४. मूर्खः । ५. विलापवचनानि ।
25