________________
10
२९०] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरेण कृतं भीष्मादीनां निवर्तनम् ॥
इत्याभाष्य गृहान् भीष्मे प्रत्यावृत्ते युधिष्ठिरः । द्रोणाचार्यकृपाचार्यावापृच्छत वनेच्छया ॥७६।। द्रोणोऽवादीदविद्राणवात्सल्यो वत्स ! वत्स्यसि । आकल्पममुना सत्यव्रतेन हृदये सताम् ॥७७॥ वत्स ! धर्मेण सत्त्वेन विनयेन नयेन च । अमुना भुवनस्यास्य भवितासि निदर्शनम् ॥७८॥ द्रोणो गुरुरमी सर्वे शिष्याः पाण्डवकौरवाः । यद्यप्येवं तथाऽप्यस्मि युष्मासु सविशेषदृक् ॥७९॥ तत्रापि पुत्रवात्सल्यादस्त्रे निष्पादितस्तथा । मया पार्थो यथा तैस्तैर्गुणैर्जयति मामपि ॥८०॥ तदेतस्मिन्समीपस्थे न ते प्रत्यूहसम्भवः । दुस्तरे सन्तु कान्तारे पन्थानः शिवतातयः ॥८१॥ उपोषितानां पीयूषबन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे नेत्राणां पारणोत्सवः ॥८२॥ इत्युदीर्य गते द्रोणे सकृपे साश्रुलोचने । निर्व्याजं व्याजहारेति धृतराष्ट्र युधिष्ठिरः ॥८३॥ ज्येष्ठतात ! नमस्तुभ्यं प्रसन्ना देहि नो दृशः । दुर्योधनस्य संदेशं गतो व्याहर्तुमर्हसि ॥८४॥ भ्रातः ! कुरुकुलोत्तंस ! तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीर्ति श्नुते म्लानतां यथा ॥८५॥ तस्य वैनयिकं पश्यन्स्वसूनोर्दुनयं पुनः । अपत्रपिष्णुस्तूष्णीको धृतराष्ट्र: पुरं ययौ ॥८६।। ज्यायस्यः सत्यवत्याद्याः प्रसाद्य नतिपूर्वकम् । धर्मजेन वने यातुमन्वज्ञाप्यन्त मातरः ॥८७॥ अभिनन्द्यतमाशीभिर्निभिन्नहृदया इव ।। अतुच्छशोकमूर्छालास्तास्ततः कथमप्यगुः ॥८८॥
15
25
१. प्रभूतवात्सल्यः । २. कल्याणश्रेणयः । ३. चन्द्रेण । ४. 'नेत्रयोः' इति चेत्, साधुः ।