SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [२९१ सप्तमः सर्गः । विदुरं प्रति युधिष्ठिरस्य कथनम् ॥] अथ कार्यविदाऽऽकार्य लोकमस्तोकमेकतः । नगराय निवर्तध्वमिति भूपतिरादिशत् ॥८९॥ लोकोऽप्यजल्पदाकल्पमस्माकमनुजीविनाम् । पादा नन्दन्ति यत्रैते तत्रैव नगरं प्रभो ! ॥९०॥ आत्मानुयायिनी छायां व्यावर्तयसि चेदिमाम् । तदा वयं महीनाथ ! व्यावर्तेमहि नान्यथा ॥९१॥ तं तथा बद्धनिर्बन्धं जनं जानन् युधिष्ठिरः । अनुमत्य सहायान्तमवादीद् विदुरं ततः ॥९२॥ वितनोषि त्वमेवार्य ! प्रीतिमस्मासु पैतृकीम् । देवस्याजनि पाण्डोस्तु केवलं जन्मकर्तृता ॥९३।। एतावस्मद्वियोगार्तिकातरौ पितरौ पुरः ।। सहैव नेतुं मोक्तुं वा ब्रूहि किं मम साम्प्रतम् ? ॥१४॥ जगाद विदुरो वत्स ! मत्सरी ते सुयोधनः । अतः सर्वकुटुम्बेन समं गन्तुं न युज्यते ॥९५॥ तदत्रैव तटस्थेन स्थेयं देवेन पाण्डुना । देवी स्थास्यति कुन्ती तु नैव वो विरहासहा ॥९६॥ एनमादृत्य तन्मन्त्रं नत्वा पाण्डं युधिष्ठिरः । सबाष्पं स्थापयामास विनीतो विदुरान्तिके ॥९७॥ अवियोगाद्वियोगाच्च तदानीं पुत्रभर्तृभिः । अवाप युगपत्कोटि कुन्ती हर्षविषादयोः ॥९८॥ तवासौ पर्यवस्थाता न स्थाता स्वव्यवस्थया । तद्भवेः सावधानस्त्वमध्वनीनो वनाध्वनि ॥९९॥ इति धर्मसुतं स्नेहादनुशास्य सगद्गदम् । रुदन्ती विदुरः कुन्तीमनमन्नम्रमस्तकः ॥१००॥ युग्मम् । अथ साश्रुमुखः पाण्डुरभाषिष्ट युधिष्ठिरम् ।। कान्तारेषु कथं वत्स ! सकुटुम्बो भ्रमिष्यसि ? ॥१०१॥ 25 १. न विरुद्धमाचरिष्यति ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy