________________
सप्तमः सर्गः । भीष्मादीनां हितशिक्षा ॥]
जगज्जैत्रकलाः पार्श्वे यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत स्यान्न चेद्भवितव्यता ॥६३॥ एकाकिनैव कान्तारविहारस्पृहयालुना । नियतं त्यक्तुमारब्धा वयमेकपदे त्वया ॥६४॥
भूत्वा समस्तवस्तूनां संविभागपरः पुरा । इदानीं कथमेकाकी भोक्ष्यसे वनसम्पदम् ? ॥६५॥ तन्मामप्यनुजानीहि सहागमनहेतवे ।
चूडाचन्द्रं महेशोऽपि न जातु त्यजति क्वचित् ॥६६॥ कुर्वन्नित्याग्रहं भीष्मः पादावाधाय मूर्धनि । विनयाद् धर्मपुत्रेण वारितः पुनरब्रवीत् ॥६७॥ ग्राह्याः प्रतिर्भुवः पञ्च चौरास्तु त्रिगुणास्ततः । निग्राह्याः क्षोणिपालेन श्रियःस्थेमानमिच्छता ॥६८॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ॥६९॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान् वत्स विद्धि राज्यहरान्पुनः ॥७०॥ अरिषड्वर्गसंसर्गः प्रकृतौयोग्यकर्मसु ।
१४
नये धर्मे प्रतापे च विमुखत्वमनारतम् ॥७१॥ अज्ञानमनृतं लञ्च निखिलेव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ॥७२॥ प्रत्येकमेषां राज्यश्रीहरणे प्रभविष्णुता । पश्यैकेनापि ते द्यूते व्यसनेन कियत्कृतम् ? ॥७३॥ उच्छेदाय तदेतेषां यतेथास्तात ! सर्वथा । पुनराच्छिद्य तैरात्तामाददीथाः श्रियं यथा ॥७४॥ वर्तेथाश्च तथा तात ! मानसेनाऽप्रमादिना । पूर्णेऽवधौ निवर्तेथाः काननात्कुशली यथा ॥७५॥
१. साक्षिणः । २. तेभ्यस्ता प्रत्यन्तर ।
[ २८९
5
10
151
20
25