SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २८८ ] [ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य रोषः ॥ इमौ तु बिभितस्तुभ्यं भीमौ भीमाधनंजयौ । अन्यथा कुरुतो ह्येतौ वसुधामसुयोधनाम् ॥५०॥ इदानीमप्यमुं दृप्तं रिपुमुच्छिन्दतो ध्रुवम् । तवायं सत्यनिर्वाहजडिमैव ममार्गला ॥५१॥ यत्तु दुश्चरितं तस्य पाञ्चाल्याः केशकर्षणम् । तदेतया ममामीभिर्बाष्पैः पश्य निवेद्यते ॥५२॥ नूतनो मम कोपाग्निः पाञ्चालीनयनाम्बुभिः । ज्वलितोऽतीव गान्धारीदुरपत्यं दिधक्षति ॥५३॥ ततः सतीतिरस्कारपाप्मनामधुना फलम् । तं दुष्टं लम्भयिष्यामि मा स्म प्रत्यूहमावहः ॥५४॥ इत्युक्त्वा विरते विष्णौ कृष्णाहृदयवल्लभः । मूर्ध्ना प्रणम्य सद्बुद्धिर्बद्धाञ्जलिरदोऽवदत् ॥५५॥ कंसान्तक ! त्वयि क्रुद्धे नहि शक्रोऽपि विक्रमी 1 मनुष्यकृमयः केऽमी पुनर्दुर्योधनादयः ? ॥५६॥ सत्यातिक्रमकौलीनं मदीयं किन्तु लोकतः । समाकर्ण्य त्वमेवात्र विश्वत्रातस्त्रपिष्यसे ॥५७॥ निषिद्धौ बान्धवावेतौ मयाऽऽदेशवशंवदौ । त्वं तु व्यावर्तसेऽमुष्मादारम्भाच्चेत्प्रसीदसि ॥५८॥ इत्थं हरौ शमं नीते विनीतो नीतिकोविदः । धर्मजो बान्धवैः सार्धं भीष्मस्याभ्यर्णमभ्यगात् ॥५९॥ अब्रवीच्च बृहत्तात ! गुरुभ्योऽपि गुरुर्भवान् । व्यसनत्रासिनीं शिक्षां देहि मे पारिपार्रिवकीम् ॥६०॥ अथाभाषत भीष्मोऽपि कुरुगोत्रशितद्युते । विश्वत्रयीसंवननं तवैवेदृग्गुणार्जनम् ॥ ६१ ॥ मित्रामित्रपरीक्षार्थं मन्ये व्यसनमप्यदः । त्वयैवात्तं स्वयं नो चेत् क्व भवान् क्व दुरोदरम् ? ॥६२॥ १. चतुर्थी चिन्त्या । २. दग्धुमिच्छति । ३. लोकत्रयवशीकरणम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy