SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । धृष्टद्युम्नस्यागमनम् ॥] हस्तिनापुरचारिभ्यश्चारेभ्यश्छद्मना कृतम् । श्रुत्वा प्रवासमेवं वस्तातेन प्रहितोऽस्म्यहम् ॥३७॥ इदानीमपि सोदर्ये ! निजशौर्येण विष्टपम् । आदुर्योधनमादध्यां मन्यते नु पतिर्न ते ॥ ३८ ॥ ततः सत्यजडो यावद्वने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति तावदेहि गृहं पितुः ||३९|| इत्युक्ता प्रत्यभाषिष्ट पाञ्चालनृपतेः सुता । दुर्योधनवधे विघ्नो राजैव भीमपार्थयोः ||४०| पाण्डवानां पदैर्यानि पावनानि वनान्यपि । मह्यं तान्येव रोचन्ते कृतं पितृगृहेण मे ॥४१॥ केवलं सरलान्बालान्भागिनेयान्निजानमून् । पञ्चाप्यादाय पाञ्चालान् व्रज त्वं विजयी भव ॥४२॥ एवमुक्तस्तया स्नेहाद् धर्मसूनोरनुज्ञया । धृष्टद्युम्नः पतद्वाष्पस्तान् गृहीत्वा गृहं ययौ ॥४३॥ अन्येद्युरभ्रमेकान्तकान्तदन्तावलं बलम् । बिभ्रन्नारायणः प्रीत्या युधिष्ठिरमुपायौ ॥४४॥ प्रत्युद्गम्य तमायान्तं प्रणमन्ति स्म पाण्डवाः । ववन्दे द्रुतमभ्येत्य सोऽपि कुन्तीपदाम्बुजम् ॥४५॥ कंसध्वंसी सुखासीनो निविष्टं विष्टरे पुरः । मनःसङ्क्रान्ततद्दुःखो धर्मनन्दनमभ्यधात् ॥४६॥ दुर्योधनकवीन्द्रेण स्पष्टाभीष्टार्थदृष्टिना । दुरोदरप्रबन्धोऽयं व्यधायीति श्रुतं मया ॥४७॥ दुर्योधननरेन्द्रस्य द्यूतमन्त्रैकसाधने । उभावभूतां शकुनिः कर्णश्चोत्तरसाधकौ ॥४८॥ अभविष्यन्निकारोऽयं मयि सन्निहिते न ते । रोहिणीरमणं राहुग्रसते न बुधान्तिके ॥ ४९ ॥ [ २८७ १. कोषेषूपलभ्यमानस्याभ्रमुशब्दस्य ह्रस्वत्वाद्दीर्घत्वमत्र चिन्त्यम् । अभ्रमुकान्तः - ऐरावणः । २. 'सिद्धिना' 'वृष्टिना' इति प्रत्यन्तरपाठः । ३. पराभवः । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy