________________
[२८५
सप्तमः सर्गः । किर्मीरराक्षसस्यागमनम् ॥]
निजं नलेन साम्राज्यं पुरा द्यूते पणीकृतम् । हा ! हा ! युधिष्ठिरेणापि तदिदानीमनुष्ठितम् ॥११॥ धिग् धिग् दुर्योधनं येन महात्मा धर्मनन्दनः । कृत्वा द्यूतमयं छद्म त्याजितो राज्यसम्पदम् ॥१२॥ दुर्योधनस्य न स्थास्नु राज्यमात्तमपि ध्रुवम् । यावद्विजयिनावेतौ वृकोदरकिरीटिनौ ॥१३॥ किं चान्यत्प्रतिपाञ्चालि यदनेन प्रपञ्चितम् । आलप्यालं तदस्माकमेतस्यैव फलिष्यति ॥१४॥ जनानां सानुरागाणामित्थमुत्तस्थिरे गिरः । केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ? ॥१५॥ अथान्यमनसं कृष्णां क्रूर: किर्मीरराक्षसः । अकस्मान्नभसोऽभ्येत्य भापयामास वर्त्मनि ॥१६।। मषीकृष्णवपुः पिङ्गविकीर्णघनमूर्द्धजः । स मौलिप्रज्वलाद्दावो विन्ध्याचल इवाबभौ ॥१७॥ गवलश्यामलो बिभ्रदङ्गारसदृशौ दृशौ । जहास प्रलयाकाशमुदिताङ्गारकद्वयम् ॥१८॥ भुजङ्गीतरलां जिह्वां बिभ्राणां द्रौपदीपुरः । दन्तैः कृतान्तकुन्ताभैर्भीमं स व्याददौ मुखम् ॥१९॥ ततो भयामित्युच्चमुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेदकोविदं विदधे ध्वनिम् ॥२०॥ तेनाथ ध्वनिनाऽऽकृष्टः कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयाञ्चक्रे किमिदं पाप ! चापलम् ॥२१॥ दीर्घाध्वपथिकी श्रान्तां प्रवासेन विषेदुषीम् । प्रियां भीषयसे मे त्वमधुना भुक्ष्व तत्फलम् ॥२२॥ इत्याक्षिप्य गदाघातैस्तं नीत्वाऽन्तं वृकोदरः । योऽस्ति दुर्योधनक्रोधस्तन्मुष्टिं कृष्टवांस्तदा ॥२३॥ १. उक्त्वाऽलम् । २. भौमग्रहः । ३. खिन्नाम् ।