________________
5
10
15
२८४]
20
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां वनगमनम् ॥
सप्तमः सर्गः ॥
अथ धर्मसुतः सत्यनिर्वाहस्पृहयालुना । मनसा वनवासाय प्रतस्थे हस्तिनापुरात् ॥१॥ भीमादयः सह व्रज्याव्रतसन्नद्धबुद्धयः । स्वस्वशस्त्रादिसामग्रीसमग्राश्चेलुरग्रतः ॥२॥ पाण्डुश्च धृतराष्ट्रश्च भीष्मश्च स्नेहमोहिताः । निर्यद्वाष्पजलोत्पीडाः पाण्डवाननु वव्रजुः ॥३॥ सत्यवत्यादयः सर्वाः शोकार्ता ज्येष्ठमातरः । दासीहस्तकृतालम्बा बभूवुः पाण्डवानुगाः ॥४॥ भद्रं तवास्तु क्रीडाद्रे ! क्रीडावापि ! नमोऽस्तु ते । क्रीडावन ! तव क्षेमं पुनर्वः सङ्गमः कुतः ? ॥५॥
हो ! बहिनो ! हंस ! हेले हरिणि ! हे शुक ! । कुशलं वोऽस्त्वसौ दैवाद् याति वः परिचारिका ॥६॥ इत्यापृच्छ्य पतद्बाष्पा केलिपात्राणि सर्वतः ।
बद्ध्वा परिकरं कृष्णा कुन्तीपृष्ठस्थिताऽचलत् ॥७॥ त्रिभिर्विशेषकम् । लोकोऽपि पुरवास्तव्यो गुणगृह्यतया परम् । विहाय गृहसर्वस्वं धर्मनन्दनमन्वगात् ॥८॥ सर्वैः साकं सशोकैस्तैः पार्वणेन्दुसमाननः । धर्मात्मजः पुरान्निर्यन्मूर्तो धर्म इवाबभौ ॥९॥ विसङ्कटेऽपि सङ्घट्टसङ्कटे पथि गच्छताम् । परस्परस्य लोकानां मिथः पप्रथिरे कथाः ॥१०॥
१. व्रज्या - प्रयाणं सैव व्रतम् । २. हला प्रतित्रय ।