________________
[२८३
षष्ठः सर्गः । नगरजनानाम् विषादः ॥].
संतताश्रुपयःपूर-पङ्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो निरीक्षाञ्चक्रिरे जनैः ॥१०२१।। हारिताखिलनरेन्द्रसम्पदः पाण्डवाः स्फुरदखण्डतेजसः । मातरं च पितरं च वीक्षितुं हस्तिनापुरमुपागमन्पुनः ॥१०२२।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये
नलोपाख्यानद्यूतवर्णनो नाम षष्ठः सर्गः ॥६॥