________________
[२७५
षष्ठः सर्गः । पाण्डवादीनाम् द्यूतक्रीडा ॥]
द्यूताद्यैश्चेद्विजेष्यन्ते व्यसनैस्त्वादृशा अपि । देवस्तदुष्णधामापि तमोभिय॑क्करिष्यते ॥९१८॥ व्यसनैः सह वास्तव्याः किंनाम स्युर्गुणाः क्वचित् ? । दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ? ॥९१९॥ द्यूतदावानलादस्मात्तन्निवर्तितुमर्हसि । ज्वलत्येवैष ते पश्य हहा ! गुणमयः पटः ॥९२०॥ इत्येतां न गिरं तेषामजातारिरजीगणत् । सतामपि विधौ क्रुद्धे विपर्यस्यति शेमुषी ॥९२१॥ द्यूतासक्तमनीशास्तमीक्षितुं केचिदत्यजन् । त्यजन्ति राजहंसा हि मेघाऽऽलिमलिनं तमः ॥९२२॥ हारितेभरथाश्वीयः स कर्णादीनमोदयत् । घनास्तग्रहतारेन्दु व्योमेव तिमिरोत्करान् ॥९२३।। अथाकरपुरग्रामसमग्रमवनीतलम् । ग्लहीकुर्वति कौन्तेये सभ्याः सम्भ्रान्तमभ्यधुः ॥९२४।। न नाम भवति क्षोणिपणोऽयमवधि विना । हन्त दुर्योधनस्यापि मद्रकारोऽवधिः कृतः ॥९२५॥ सर्वथा निजसाम्राज्यनिराशान्पाण्डवानमून् । को निवारयिता विश्वेऽप्यपणीकुर्वतः पणम् ॥९२६॥ सूत्रिते त्ववधौ राज्यप्रत्याशासुस्थिताशयाः । अन्यायं वाग् विपर्यासं लज्जयाऽपि न तन्वते ॥९२७॥ इत्याकर्ण्य गिरः कर्णः सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मिन्नस्तु द्वादशवत्सरी ॥९२८।। तां कर्णभारतीमोमित्युररीकृत्य देवितुम् । . पुनः प्रावतिषातां तौ द्यूतकारावुभावपि ॥९२९॥ हारितायां क्षणादक्षकैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे बान्धवान् धर्मनन्दनः ॥९३०॥
१. मद्रकार: क्षेमंकर इति शब्दकल्पद्रुमः ।