SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । विदुरो धृतराष्ट्रमुपदिश्य स्वस्थानं गतः ॥ ] प्रत्युताभूत्परा मानग्लानिरेतस्य दुर्धियः । पदादध्यासितात्पातस्त्रपाकारी हि दोष्मताम् ॥८६६॥ तदेवं कूबरस्येव जयोऽप्यस्मिन्दुरोदरे । नाऽऽभाति मे शुभोदर्कस्त्वदीयतनुजन्मनः ॥८६७॥ जितामपि महीमेते पाण्डवा नार्पयन्ति चेत् । तदा को नाम गृह्णीयादत्यन्तबलवानपि ॥ ८६८॥ कर्ता वा कलहं कञ्चिच्चेद् ग्रहीतुमहंकृतः । तत्तैर्घातिष्यते नूनं सुतस्ते सह बान्धवैः ||८६९|| सत्यवाक् तपसःसूनुरर्पयेद्वा जितां महीम् । तथापि शाश्वती नास्य जीवतोर्भीम-पार्थयोः ||८७० ॥ आच्छिन्नश्रीर्बलात्ताभ्यां स कूबर इवोच्चकैः । यास्यति त्वत्सुतोऽवश्यं लोकस्यैवास्य हास्यताम् ॥८७१॥ किं चेन्द्रप्रस्थमप्यस्य तदा न स्थास्नु मन्यते । तल्लाभमिच्छतो मूलक्षतिः शङ्केऽस्य भाविनी ॥८७२॥ न कश्चिन्नलतुल्योऽस्ति कूबरस्येव यः पुनः । श्रियं तव तनूजस्य क्रूरस्यापि प्रदास्यति ॥ ८७३|| देशत्यागं तदा कुर्यात्सैष युद्ध्वा म्रियेत वा । प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥८७४॥ तदेनं कथमप्यस्मान् निवर्तय कदाग्रहात् । द्यूतं हि नाऽऽयतिक्षेमंकरं कस्यापि दृश्यते ॥ ८७५॥ इत्यसौ विदुरस्योक्तिर्धृतराष्ट्रहृदि क्वचित् । पूर्णेऽम्भोबिंदुवत्कुम्भे नावकाशं समासदत् ॥८७६॥ तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृह्णाति देहिनां मोहो यावन्मनसि न स्थितम् ॥८७७॥ उदारदुःखसम्भारविभिन्नहृदयस्ततः । रैंचितोपेक्षमुत्थाय स्वस्थानं विदुरो ययौ ॥८७८॥ १. नष्टप्रभुत्वैः । २. परिचिते । ३. गिरा इति प्रतौ । ४. कृतोपेक्षं यथा स्यात्तथा । [ २७१ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy