SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २७२ ] [ पाण्डवचरित्रमहाकाव्यम् । दिव्यसभां द्रष्टुं युधिष्ठिरस्यगमनम् ॥ सभावलोकनव्याजादथाह्वातुं तपःसुतम् । हास्तिनं नगरं प्रैषीद् धार्तराष्ट्रो जयद्रथम् ||८७९।। हस्तिनापुरमभ्येत्य सवेगाद्वाग्मिनां वरः । स्नेहदाक्षिण्यभूयिष्ठं युधिष्ठिरमभाषत ॥८८० ॥ देव ! दुर्योधनस्तुभ्यं मया विज्ञापयत्यदः । बान्धवेषु समग्रेषु त्वमेव मम जीवितम् ॥ ८८१ ॥ तन्ममाभिनवां दिव्यां संसदं द्रष्टुमर्हसि मनोज्ञमपि नाभीष्टैरदृष्टं हि मुदे सताम् ||८८२ ॥ इन्द्रप्रस्थं ततः प्र॑स्थमेयानन्दं त्वदागमे । अद्यास्तु नूतनोत्सर्पदुत्सवक्षीवतां गतम् ॥८८३॥ इत्याकर्ण्य तपःसूनुर्जयद्रथसरस्वतीम् । इन्द्रप्रस्थं ततः प्रीत्या चचाल सरलाशयः ॥८८४॥ सह द्रुपदनन्दिन्या कनीयांसस्तमन्वयुः । पौरस्त्यमारुतं सार्धं विद्युतेव पयोमुचः ||८८५ ॥ तरङ्गपवनोद्धूतमनुस्वर्धुनि गच्छतः । सहगामीव धर्मोऽस्य विरेजे कैतकं रजः ॥८८६॥ तस्यासेदे बलैः सम्पन्माद्यदुद्यानमण्डिता । अरिव्रातमनःशल्यैरिन्द्रप्रस्थोपशल्यभूः ॥८८७॥ तं प्रत्युदगमत्सैन्यैः पृष्ठतो धृतराष्ट्रसूः । पूर्वं वामानिलानीतस्तत्परागस्त्वभाग्यवत् ॥८८८॥ सहानीकैरजातारिर्मनोरथ इवाङ्गवान् । प्राविशन्नगरं तस्य तत्कालकलितोत्सवम् ॥८८९॥ बहिर्विकीर्णवात्सल्यं धृतराष्ट्रं युधिष्ठिरः । सबान्धवोऽपि बाह्यार्द्रं शमीतरुमिवानमत् ॥८९०॥ तथा दुर्योधनस्तस्य तास्ताः स्वागतिकीः क्रियाः । करोति स्म यथा मेने तस्मिन्नैकात्म्यमेव सः ॥८९१ ॥ १. प्रस्थः परिमाणविशेषः तेन मेय आनन्दो यस्य यस्मिन् वा । २. क्षीवता - मत्तता ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy