SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ [२६९ षष्ठः सर्गः । नलस्य पराक्रमः ॥] प्रा[क्] कृतोपकृतेस्तत्तद्वन्धुवत्तस्य गौरवम् । कृतज्ञा कारयामास वैदर्भी भीमभूभुजा ॥८३९॥ ऋतुपर्णनृपं चन्द्रयशश्चन्द्रवतीयुतम् । दूतैस्तं च वसन्तश्रीशेखरं भैम्यजूहवत् ॥८४०॥ भीमभूमीभुजा नित्यमुपचारैर्नवैर्नवैः ।। ते कृतप्रीतयः सर्वे निन्युर्मासं मुहूर्तवत् ॥८४१॥ अन्येयुः कश्चिदभ्येत्य भीमसंसदि कान्तिमान् । सुरः पश्यत्सु सर्वेषु वैदर्भीमित्यवोचत ॥८४२॥ भैमि ! स्मरसि संबोध्य यं पुरा तापसेश्वरम् । प्रापयिष्यसि सम्यक्त्वं प्रव्रज्यां च शुभोदयाम् ॥८४३।। सोऽहं तप्त्वा तपोऽप्युग्रं सौधर्मे धर्मभाग मृतः । श्रीकेसरसुरोऽभूवं विमाने केसराह्वये ॥८४४॥ यस्त्वयाऽऽकृष्य मिथ्यात्वादर्हद्धर्मेऽस्मि रोपितः । तस्यैवैतत्फलं तन्मे त्वमत्यन्तोपकारिणी ॥८४५॥ इत्युक्त्वा तपनीयस्य सप्त कोटीविकीर्य सः । कृतज्ञचूडामाणिक्यं यथागतमगात्सुरः ॥८४६।। वसन्त-दधिपर्णर्तुपर्णा भीमोऽपरेऽप्यथ । अभ्यषिञ्चन्नलं राज्ये महीयांसो महीभृतः ॥८४७।। ते नलादेशमासाद्य कम्पयन्तोऽथ काश्यपीम् । सर्वाणि स्वस्वदेशेभ्यः सद्यः सैन्यान्यमेलयन् ॥८४८॥ अथ प्रतस्थे दैवज्ञदत्तेऽह्नि सहितो नृपः । कोशलां प्रति लक्ष्मी स्वां ग्रहीष्यन्बलवान्नलः ॥८४९॥ स क्रमात्तिरयन्सैन्यपांशुपूरैरहस्करम् । अध्यतिष्ठदयोध्यायाः काननं रतिवल्लभम् ॥८५०॥ बहिरुद्यानमायातमाकातिबलं नलम् । कूबरस्य मनोऽकार्षीत्संकथां मृत्युना समम् ॥८५१॥ तं दूतेन नलोऽवादीद् दीव्यं भूयोऽपि देवनैः ।। त्वल्लक्ष्म्यः सन्तु मे हन्त मल्लक्ष्म्यस्तव सन्तु वा ॥८५२॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy