________________
[२६७
षष्ठः सर्गः । भीमनृपेण कथितं स्वप्नफलम् ॥]
रसालं फलपुष्पाढ्यमारोहं तत्र तगिरा । विकचं शतपत्रं च ममार्फात करे तया ॥८१३॥ पुराऽऽरूढो झटित्येव विहगः कोऽपि भूतले । अकस्मादपतत्तस्माच्चूतादध्यासितान्मया ॥८१४।। भीमोऽप्यूचे त्वया दृष्टः पुत्रि ! स्वप्नोऽयमुत्तमः । तथा हि भाग्यसम्भारः प्रत्यक्षस्तव निर्वृतिः ॥८१५।। कोशलाप्राभवं तद्यत्कोशलोद्यानदर्शनम् । माकन्दपादपाऽऽरोहः साक्षात्ते प्रियसङ्गमः ॥८१६॥ 'माकन्दाद्यस्त्वदाक्रान्ताद्मशः कस्यापि पक्षिणः । . पातः पातकिनो नूनं साम्राज्यात्कूबरस्य सः ॥८१७॥ निशावसाने स्वप्नस्य दर्शनान्नलसङ्गमः ।। अद्य भावी प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥८१८॥ तदोपेतं पुरद्वारि दधिपर्णं ससम्भ्रमः ।। अभ्येत्य मङ्गलो नाम कोऽप्याख्यद् भीमभूभुजे ॥८१९।। भीमोऽभ्येत्य तमायान्तं प्रीत्याऽऽश्लिष्य वयस्यवत् । सौधार्पणाद्यमाधाय स्वागतं चेत्यवोचत ॥८२०॥ कुब्जस्ते सूपकृत् सूर्यपाकां रसवतीमसौ । वेत्तीति श्रूयते तां मे दर्शयास्ति कुतूहलम् ॥८२१॥ गिराऽथ दधिपर्णस्य कुब्जो रसवतीं स ताम् । निष्पाद्याभोजयद् भीमभूपालं सानुजीविनम् ॥८२२॥ दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् । आनाय्य भैम्यपि स्थाले कृत्वा तां बुभुजे स्वयम् ॥८२३॥ तत्स्वादमुदिता भैमी जगाद पितरं रहः । कुब्जः खञ्जोऽस्तु वा तात नलः सैष न संशयः ।।८२४।। मुनिआनी ममाऽऽचख्यौ पुरा ह्येतद्यथा भुवि । नलो रसवती सूर्यपाकां जानाति नापरः ॥८२५॥
25
१. कोशलायाः प्रभुत्वम् । २. प्रासादस्य अर्पणादिकम् ।