SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । दधिपर्णेन सह नलस्य विदर्भे गमनम् ॥] इत्याख्याय गते दूते स कुब्जोऽन्तरचिन्तयत् । महच्चित्रमहो कुर्याद्यद् भैम्यप्यपरं वरम् ॥७८७|| स्यादेवमपि वा जातु बलीयान्खलु मन्मथः । जीवतो मम वैदर्भी कः पुनस्तां ग्रहीष्यति ॥ ७८८।। किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटाः ? | तक्षकस्य फणारत्नं कृष्यते श्वसतोऽपि किम् ॥७८९॥ सोऽथ तं पृथिवीपालं निमीलन्मुदमभ्यधात् । जृम्भते भूप ! किं नाम दौर्मनस्यं तवाप्यदः ? ॥७९०॥ यस्य सोऽहं सहायोऽस्मि सर्वकर्मीणतास्पदम् । तस्यापि तत्किमप्यस्ति नैव यत्करगोचरम् ? ॥७९१॥ ४ यामाः स्वयंवरादर्वाक् षट् सन्त्यद्यापि तद्यदि । मनस्ते भीमजन्मानं तां मृगीदृशमिच्छति ॥ ७९२॥ तदर्पय रथं कंचिद् दृढं जात्यांश्च वाजिनः । दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥७९३॥ युग्मम् । गृहाण स्वेच्छयेत्युक्तः क्षितीशेन स बुद्धिमान् । जग्राह रथमश्वांश्च सर्वलक्षणलक्षितान् ॥७९४॥ सज्जीकृत्य रथं युक्तवाहमाधाय च क्षणात् । इहाऽऽरोहेति तं कुब्ज: क्षोणिपालमभाषत ॥ ७९५॥ राजा स्थगीधरश्छत्रधारश्चामरधारिणौ । कुब्जश्चेति षडारोहन्नरास्तस्मिन्वरूथिनि ॥७९६॥ ततो बिल्वकरडौयौ दत्तौ निषधनाकिना । तावाबध्य कटौ कुब्जः प्राजति स्म तुरङ्गमान् ॥७९७॥ कुब्जेन प्रेरितान्वीक्ष्य वाहाननिलरंहसः । दधिपर्णनरेन्द्रोऽथ विस्मयादित्यचिन्तयत् ॥७९८॥ ५ अहो कश्चित्पुमानेष मर्त्यानत्येति सर्वतः । अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥७९९॥ [ २६५ १. सिंहस्य । २. हर्षरहितम् । ३. सर्वकर्मणि समर्थतास्पदम् । ४. प्रहराः । ५. स्थगी ताम्बूलपात्रविशेषः । ६. रथे । 5 10 111 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy