SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १२] [पाण्डवचरित्रमहाकाव्यम् । गङ्गायाकथितो गाङ्गेयवृत्तान्तः ॥ प्रत्युवाच स तां मातर्यद्यप्येवं तथापि मे । ततोऽपि नाधुना तातः कर्मठो यः कुकर्मसु ॥११५।। असौ प्रत्युत मे शत्रुः पालितेभ्यो मयाऽनिशम् । बाल्यात्कान्तारजन्तुभ्यो यदमीभ्योऽपि द्रुह्यति ॥११६।। पिता वाऽस्तु परो वाऽस्तु नामुं मुञ्चे कथञ्चन । प्राणिनो मे प्रियानेतान्निघृणश्चेज्जिघांसति ॥११७।। ततो गङ्गा समागत्य वसुधाऽधिपमभ्यधात् । आर्यपुत्र ! स्वपुत्रेण कोऽयं ते भीषणो रणः ? ॥११८॥ एतत्तस्या वचः श्रुत्वा स्फारिताक्षः क्षमापतिः । इयं गङ्गा कथमयं गाङ्गेयश्चेत्यतर्कयत् ॥११९॥ समुद्धषितरोमाञ्चो रथादुत्तीर्य पार्थिवः । प्रौढं प्रमोदमारूढस्त्वरितं सुतमभ्यगात् ॥१२०॥ अपरोऽप्य परोप्याशु चापं पर्यश्रुलोचनः । आगत्य भूमिलुठनैः पादयोरपतत्पितुः ॥१२१॥ पिताऽप्युत्थाप्य सर्वाङ्गमालिङ्गन्नङ्गजं निजम् । तत्सुखं प्राप पीयूषसेकतोऽप्यतिरेकि यत् ॥१२२॥ परं परस्परस्नेहं वीक्ष्य प्रत्यक्षतस्तयोः ।। यामुवाह मुदं तां तु सैव जानाति जाह्नवी ॥१२३।। अथ पुण्यपरीपाकसम्पन्नाङ्गजसङ्गमः । . आलिङ्गन्नयनैः प्रीत्या प्रियां प्रोवाच पार्थिवः ॥१२४॥ कस्तुरीस्तबकश्यामनवश्मश्रुरसौ मया । प्रिये ! सुतोऽपि शौण्डीर्यविस्मयान्नोपलक्षितः ॥१२५॥ कथं कान्तारवास्तव्यः सुतो मे समजायत ? । कथं वा यौवनावस्थामिमामानायितस्त्वया ? ॥१२६॥ गङ्गा जगाद राजेन्द्र ! कथयामि निशम्यताम् । पुरे मातामहस्यायं तदोपेतः समं मया ॥१२७॥ १. 'बलात्' इति प्रत्यन्तरत्रयपाठः । २. 'वाऽस्त्वपरो' इति प्रत्यन्तरत्रयपाठः । ३. रोमाऽथ इति प्रत्यन्तरत्रयपाठ । ४. संहृत्य । ५. गङ्गा । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy