SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । गङ्गायाः आगमनम् ॥] [११ नवाभिनवसम्भारप्रबुद्धक्रोधभीषणः । क्षितिपोऽपि निचिक्षेप क्षिप्रं तं प्रति पत्रिणः ॥१०२॥ महाबलेन ते तेन सपत्राः पादपा इव । वायुनेव व्यधीयन्त द्विधामार्गेऽपि मार्गणाः ॥१०३।। वीक्ष्य द्वेधाऽपि वैलक्ष्यं प्रपेदानमथ प्रभुम् । मृगैरिव मृगारातिः स रुद्धो नृपसैनिकैः ॥१०४॥ स भटः सुभटालोकरोमाञ्चिततनुस्तदा । तान्प्रत्येकं शरैरेको निर्ममें दक्षिणेर्मणः ॥१०५॥ काश्यपीशो दशकोपाद्दशनैर्दशनच्छदम् । यावद्धनुषि संधत्ते सायकं शत्रुशायकम् ॥१०६।। जितकाशी भृशं तावन्निजबाणेन भूपतेः । धनुःस्थं च भुजस्थं च गुणं द्वेधापि सोऽच्छिदत् ॥१०७।। तेन विक्रमिणाऽऽक्रान्तः सिंहसब्रह्मचारिणा । अभूद्विहस्तो हस्तीव हस्तिनापुरनायकः ॥१०८।। आससाद विषादस्य निषादस्येव पाप्मनः । स्पर्शदोषाद्विशामीशः सर्वाङ्गमलिनात्मताम् ॥१०९॥ अथ क्ष्मापालमालिन्यमपनेतुमिवोत्सुका । विज्ञाय गङ्गा संग्राममागमत्तं धनुर्धरम् ॥११०॥ अभ्यधत्त च तं वत्स ! तव केयमहंयुता । समं यन्निजतातेन ग्रहिलः कलहायसे ॥१११।। ततोऽसौ विस्मयस्मेरः पृच्छति स्मेति मातरम् । कथमेष महीनाथस्तातो मे वनवासिनः ॥११२।। अथाह जननी वत्स ! पिताऽसौ तव शान्तनुः । मृगव्यव्यसनादस्मान्न व्यरंसीत्कथञ्चन ॥११३॥ जातमात्रं तदादाय त्वामुपागां गृहं पितुः । 25 पितैव शरणं स्त्रीणामविधेये हि भर्तरि ॥११४॥ १. दक्षिणे ईर्म-व्रणं येषां तान् दक्षिणपार्श्वविद्ध । २. ओष्ठम् । ३. शत्रुनिद्राकरम् [शी+अक]। ४. व्याकुलः । ५. गर्वः [अहंयुः=गर्विष्ठः तस्य भावः अहंयुता] । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy