________________
5
१०]
[ पाण्डवचरित्रमहाकाव्यम् । शान्तनु-गाङ्गेययो युद्धम् ॥ तद्धवनेरध्वनिक्षिप्तचक्षुः क्षितिपतिः पुरः । मण्डलीकृतकोदण्डं तूणीरद्वयधारिणम् ॥८९॥ साक्षादिव धनुर्वेदं वने रक्षितुमागतम् । युवानमेकं पीनाङ्गमनङ्गोपममैक्षत ॥९०॥ युग्मम् । तमभ्यधाच्च भो भद्र ! कान्तारान्तरवासिषु । मृगेषु मृगयाशीलान्कथमस्मान्निषेधसि ? ॥९१॥ सोऽप्युवाच महाभाग ! वन्यानेतान्निरागसः । भयार्तान्भव्यनीतिज्ञ ! न जन्तून्हन्तुमर्हसि ॥९२॥ भवन्ति हि भवादृक्षाः सर्वप्राणिप्रियङ्कराः । प्राणिनां च प्रियाः प्राणास्त्रायस्व तदिमानहो ! ॥९३।। ऊचे नृपश्चलेष्वेषा शिक्षा लक्ष्येषु दोभृताम् । मृगयेति विदुः पूर्वे तदलं विचिकित्सया ॥९४॥ तदितोऽपेहि मुग्धोऽसि विदग्धैर्विप्रतारितः । विलोकय विनोदं मे सर्वक्षत्रमनोहरम् ॥९५॥ स युवोवाच साक्षेपं हुं ज्ञातोऽसि धनुर्धरः । शिक्षाक्रमश्चले लक्ष्ये गत्वाऽन्यत्र विधीयताम् ॥९६।। इत्थं यदा निषिद्धोऽपि मृगान्हन्ति स्म भूपतिः । रूक्षाक्षरमदाक्षिण्यं तदा तेन व्यभाष्यत ॥९७|| धिङ्निस्त्रिंश ! वृथा वृद्ध ! गर्भव्याध ! न बाधसे । जन्तूनरंतुदैर्बाणैः किन्तु मामेव बाधसे ॥९८॥ ततो धर्मविरुद्धेऽत्र प्रथयन् पथि पान्थताम् । इदानीं दुर्नयस्यास्य सदृशं फलमाप्नुहि ॥९९॥ इत्याक्षिप्य क्षुरप्रेण लघुहस्ततया तया । स चिच्छेद बिसच्छेदं भूपालरथकेतनम् ॥१००। हन्तुमोजायमानोऽपि कल्लोलिकरुणारसः ।
स्वापं प्रस्वापनास्त्रेण सोऽनैषीन्नृपसारथिम् ॥१०१॥ १. कामदेवम् । २. भयानभिज्ञान्नीतिज्ञ । ३. धूर्तेः । ४. ध्वजाः ।
15
25