________________
[२
प्रथमः सर्गः । नृपस्य वने गमनम् ॥]
हायनैः सोऽथ तावद्भिविस्मृत्य विरहव्यथाम् । अभूद्भूयोऽपि पापद्धिव्यसनस्य वशंवदः ॥७६।। मृगव्यव्यसनी दूरं विहरन्नन्यदा नृपः । एत्य विज्ञपयाञ्चक्रे व्याधेनैकेन हर्षतः ॥७७॥ देव ! देव ! सरित्तीरे नातिदूरेऽस्ति काननम् । यदेकं ते विनोदाय पर्याप्तमिति मे मतिः ॥७८॥ यत्रातिविस्मृतत्रासाः सन्ति संख्यातिगा मृगाः । घोरैघुरघुरारावैः शूकराश्च भयङ्कराः ॥७९॥ सन्ति यत्र महाकायाचित्रकायाः सहस्रशः । सरिद्गमितमध्याह्नवासराश्चापि कासराः ॥८०॥ ततस्तं लुब्धक श्रेष्ठं पृष्ठमाधाय तत्क्षणात् । तदुपद्रोतुमारेभे काननं मेदिनीपतिः ॥८१॥ वागरापाशवीतंसविहस्तोभयपाणयः । प्रसस्रुः परितः स्वैरवादिनस्तत्र सादिनः ॥८२॥ अमुच्यन्त नवाकल्पसरमाः सरमासुताः । दधाव विविधारब्धकूट: कूटमृगीगणः ॥८३॥ दुःसाधव्याधहक्काभिर्भीमैर्व्याघातनिस्वनैः । क्षणादलभत क्षोभं भयात्तत्काननं तदा ॥८४॥ आशशंस शशस्त्राणं कुरङ्गोऽभूत्कुरङ्गकः । समीपी नाभवद्द्वीपी किरति स्म किरिः स्मयम् ॥८५॥ शरभः शरभङ्गाय पूर्वकायमुदास्थित । भीतः ससार काशारनीरं सपदि कासरः ॥८६॥ गोमायुरायुरन्तेऽभूत्तरक्षुर्दिक्षु पुप्लुवे । दूरमुद्धशितान्दधे केसरी केसरान्पुनः ॥८७।। वनमालोडयन्नेवं मन्दरादिरिवार्णवम् । केनाप्येत्य नृपो यूना मास्म मास्मेत्यवार्यत ॥८८।। १. वीतंसः-पक्षिग्रहणाय जालः । २. विहस्तः सहितः । ३. लघुव्याघ्रः ।