________________
२५२]
[पाण्डवचरित्रमहाकाव्यम् । सिंहकेसरीकुमारस्य वृत्तान्तः ॥ तस्याहं तनयः सिंहकेसरी साम्प्रतं त्वहम् । राज्ञः केसरिणः शृङ्गापुरीशस्य यशस्विनः ॥६१२॥ पाणौकृत्य सुतां बन्धुमती गच्छन्पुरी निजाम् । रम्यामुपत्यकामस्य गिरेरध्यासिषि क्रमात् ॥६१३॥ युग्मम् । भाग्यैरत्र यशोभद्रसूरीनेतानवन्दिषि । चक्रुश्च देशनामेते संसारानित्यतामयीम् ॥६१४॥ तदन्ते मे कियत्स्वामिन्नायुरित्युदिते मया । ज्ञात्वा पञ्च दिनानीति ज्ञानिनो मां बभाषिरे ॥६१५॥ ततो मृत्युभयाद्दीनमुखं सम्भ्रान्तलोचनम् । मां विलोक्यावदन्नेते विश्ववात्सल्यवार्धयः ॥६१६॥ मा भैषीर्वत्स मा भैषीर्वतमादत्स्व सम्प्रति । जन्ममृत्युभयं हन्ति कृतमेकाहमप्यदः ॥६१७॥ तदैवैतगिरा लक्ष्मी प्रियां बन्धुमतीमपि । हित्वाऽमीषां पदाम्भोजमूलेऽहं जगृहे व्रतम् ॥६१८।। एतदादेशतः शैलशृङ्गमारूढवानिदम् । निहत्य घातिकर्माणि केवलालोकमासदम् ॥६१९॥ इत्युक्त्वा सूत्रयन् योगनिरोधं स मुनीश्वरः । निरंशीकृत्य कर्माणि जगाम परमं पदम् ॥६२०।। तत्कायस्याग्निसंस्कारं पुण्यक्षेत्रे व्यधुः सुराः । व्रतं कुलपतिः पार्श्वे यशोभद्रस्य चाग्रहीत् ॥६२१॥ वैदर्भी याचमानां स व्रतं स गुरुरब्रवीत् । त्वं भोगान्भोक्ष्यसेऽद्यापि तद्दीक्षा ते न युज्यते ॥६२२॥ प्राग्भवे हि नलो राजा मम्मणोऽभून्महीपतिः । त्वं तु वीरमती नाम तस्याभूर्दयिता किल ॥६२३॥ युवाभ्यां जातु गच्छद्भ्यां क्रीडया मृगयावने । सार्थेन सार्धमागच्छन् सम्मुखं मुनिरक्ष्यत ॥६२४॥ १. पर्वतस्यासन्नां भूमिम् ।
15
20
25