________________
[२५१
षष्ठः सर्गः । केवलीदेशना ॥]
यथौचित्यमथासीने जने सुरनरादिके । कर्ममर्माविधं धर्मदेशनां केवली व्यधात् ॥५९९॥ संसारेऽस्मिन्ननित्यानि जीवितं यौवनं श्रियः । सक्तैरेष्वेव हा मूढेर्मानुषं जन्म हार्यते ॥६००॥ अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् । उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ॥६०१॥ देशनान्ते पुनः स्माह केवली संशयच्छिदे ।। तेषां तपस्विनां तस्य सार्थेशस्य च धीमतः ॥६०२॥ 'यदाख्यद्दमयन्तीयं धर्मतत्त्वमनुत्तरम् ।। तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि ॥६०३॥ इयं हि धार्मिकी सत्यपूतवाक्परमार्हती । सती सर्वजनीना च जातु जल्पति नान्यथा ॥६०४॥ दस्युनाशादिरम्भोदवृष्टिस्तम्भादिकोऽपि च । कस्को नाम प्रभावोऽस्याः प्रत्यक्षोऽभून्न वः पुरा ॥६०५॥ अस्मिन्नपि वने व्याघ्रभिल्लभल्लूकसङ्कले । प्रभावपरिपीतापन्निविशङ्का वसत्यसौ ॥६०६॥ इत्येतया मुनेस्तस्य गिरा संवेगभाग् भृशम् । प्रीतो ययाचे विमलमतिः कुलपतिव्रतम् ॥६०७|| मुनिरूचे यशोभद्रसूरिरेष महामतिः । दीक्षां दास्यति ते भद्र ! गुरुय॑स्मान्ममाप्यसौ ॥६०८॥ ततः कुलपतिर्भूयो बभाषे स्मेरविस्मयः । गृह्णीते स्म कथं नाम प्रव्रज्यां भगवन् भवान् ? ॥६०९॥ अथाख्यत्केवली राजा कोशलायां नलोऽभवत् । यदीया दमयन्तीयं दयिता पतिदेवता ॥६१०॥ कनीयान् कूबरो नाम बान्धवस्तस्य विश्रुतः । शास्तीदानीं तदीयं यो राज्यमुज्जागरोर्जितः ॥६११॥
15
20
25
१. सर्वलोकहितकारिणी ।