SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 10 २४४] [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः स्वजविचारणा ॥ कुब्जोऽभ्यधात्ततो बिभ्रद्विकाशविशदे दृशौ । श्रुता ब्रह्मन् ! पुराणीयं भैमीत्यागावधिः कथा ॥५०८।। ततः परं यदातेने भीमभूविरहातुरा । तत्स्वरूपं समस्तं मे निवेदयितुमर्हसि ॥५०९॥ जगादाथ द्विजो भैमी परित्यज्य गते नले । निशि प्रभातप्रायायां स्वप्नमेवं ददर्श सा ॥५१०॥ यदहं पत्त्रलं बद्धमञ्जरीकं सषट्पदम् । फलितं चूतमारूढा तत्फलान्यादमिच्छया ॥५११॥ तं चाभ्येत्य करी कश्चिदकस्मादुदमूलयत् । अहं च तत्परिभ्रष्टा पतिताऽस्मि भुवस्तले ॥५१२॥ ततो जागरिता प्रातरदृष्ट्वा प्रियमन्तिके । दिक्षु चक्षुर्निचिक्षेप भीमभूर्भयविक्लवा ॥५१३।। अचिन्तयच्च मे दैवमद्यापि प्रातिलोमिकम् । व्यालाकीर्णे वनान्तेऽस्मिन् मां प्रियोऽपि यदत्यजत् ॥५१४॥ यद्वा सलिलमानेतुमास्यक्षालनहेतवे ।। प्रयातः सरसि क्वापि प्राणेशो मे भविष्यति ॥५१५।। रन्तुं विद्याधरी काचित्काऽपि वा वनदेवता । सुभगं तमपाहार्षीत्सोऽन्यथा न जहाति माम् ॥५१६॥ नर्मणा वा किमस्त्येष व्रतत्यन्तरितः क्वचित् । तत्तमुत्थाय पश्यामि क्व गन्ता स ममाग्रतः ? ॥५१७।। इत्युत्थाय प्रतिक्षोणीरुहमुद्वीक्षणादपि । निजं कान्तमपश्यन्ती रुदत्युच्चैर्जगाद सा ॥५१८॥ एह्येहि त्वरितं नाथ याति मे हृदयं द्विधा । चिरं न खलु नर्मापि शर्मदं भवति क्वचित् ॥५१९॥ इत्याद्यैर्वचनैः कान्ते दृग्गोचरमनीयुषि ।। विदर्भदुहितेत्यन्तः स्वप्नस्यार्थं व्यचारयत् ॥५२०॥ 20 25 १. हास्येन । २. अप्राप्ते सति ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy