________________
[२४३
षष्ठः सर्गः । नलस्य द्विजेनोक्तो दमयन्ती-वृत्तान्तः ॥]
तया च भोजयामास राजानं सानुजीविनम् । प्रीतश्चास्मै ददौ सोऽपि वस्त्रालङ्करणादिकम् ॥४९४।। लक्षमेकं च टङ्कानां ग्रामपञ्चशतीमपि । सर्वमेतद्विना ग्रामान्हुण्डिकोऽप्यग्रहीत्तदा ॥४९५।। ततो भूयोऽपि भूपाल: प्रीतिमांस्तमभाषत । कुब्जं ! सर्वं ददे तत्ते यदन्यदपि वाञ्छसि ॥४९६।। इत्युक्तः क्षोणिपालेन कुब्जः स्मेरेक्षणोऽवदत् । राजन् यावद्भुवः खण्डं भुजादण्डः प्रशास्ति ते ॥४९७॥ द्यूतं मद्यं मृगव्यं च तावति प्रतिषिध्यताम् । इत्यस्य वचसा सर्वं तच्चकार धराधवः ॥४९८॥ युग्मम् । तत्रैव परमं राजप्रसादमधिजग्मुषः ।। वसतस्तस्य भूयांसि हायनान्यतिचक्रमुः ॥४९९॥ परेद्यवि सरस्तीरे द्रुमच्छायां निषेदुषः । कुब्जस्याभ्यर्णमभ्येत्य विप्रः कश्चिदुपाविशत् ॥५००। सोऽथ सर्वाङ्गमालोक्य कुब्जमाकूणितेक्षणः । जगौ श्लोकद्वयीमेतां नलनिन्दाविशारदाम् ॥५०१॥ निघृणानामलज्जानां निःसत्त्वानां दुरात्मनाम् । नलस्यैव धुरीणत्वं सुप्तां तत्याज यः प्रियाम् ॥५०२॥ सुप्तामेकाकिनी स्निग्धां विश्वस्तां दयितां सतीम् । गतः किं न वने त्यक्तुकाम एव न भस्मसात् ? ॥५०३॥ इत्युपश्रुत्य तद्गीतं कुब्जः पर्यश्रुलोचनः । तमभ्यधादहो रक्तकण्ठोऽसि द्विजसत्तम ! ॥५०४॥ गीतेनानेन ते काममुद्यत्करुणवीचिना । ममाप्येताः कृताः पश्य चक्षुषोरश्रुविपुषः ॥५०५।। ततः कथय कोऽसि त्वं ? कुतश्चागम्यतेऽधुना ? । दुधियश्च नलस्यायमुन्दन्तः क्व त्वया श्रुतः ? ॥५०६॥ सोऽप्याख्यत् कुशलाख्योऽस्मि कुण्डिनाच्चाहमागमम् । तत्राश्रौषमिमां सर्वां नलभूमीपतेः कथाम् ॥५०७॥
25