SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २४२ ] [ पाण्डवचरित्रमहाकाव्यम् । नलो भूतो हुण्डिकसुपकार ॥ श्रमानुत्तानमालाने गजमाकलयन् नलः । सर्वपौरजनानां तु प्रमोदमधिमानसम् ॥४८१॥ ततः सलीलमुत्तीर्य कुब्ज: कक्षावरत्रया । अभ्यर्णे दधिपर्णस्य वयस्यवदुपाविशत् ॥४८२॥ अलङ्कारान्दुकूलानि तुष्टस्तस्मै ददौ नृपः । स्वान्तिकेऽस्थापयच्चैनं गौरवेण गरीयसा ॥ ४८३॥ अभ्यधात्सविधासीनं तमन्येद्युर्महीपतिः । कलेयं गजशिक्षायां कुब्ज ! कौतस्कुती तव ? ॥४८४॥ कश्चासि ? क्व च वास्तव्यः ? कुत्र चाभिजनस्तव ? | कला नियतमन्याऽपि काऽपि सम्भाव्यते त्वयि ॥४८५ ॥ कुब्जेनाभिदधे राजञ्जन्मभूर्मम कोशला । सर्वः स्वजनवर्गोऽपि शश्वत्तत्रैव वर्तते ॥४८६॥ हुण्डिकः सूपकारोऽस्मि नलस्य पृथिवीपतेः । स एव हि कलाः सर्वाः प्रीतिपात्रे मयि न्यधात् ॥४८७॥ किं च वेत्ति स वा सूर्यपाकां रसवतीं भुवि । अहं वा तत्पदोपास्तिप्रसादाद्वेद्मि नापरः ॥ ४८८॥ सोऽधुना कूबरे बधौ क्षोणि मंक्षु दुरोदरे । हारयित्वा सदारोऽपि जगाम जनवद्वनम् ॥४८९॥ विपेदे तत्र स त्वां तु कलानिलयमागमम् । श्रितोऽहमविशेषज्ञं मायिनं नतु कूबरम् ॥४९०॥ आकर्ण्य दधिपर्णस्तां नलमृत्युकथामथ । रुरोद प्रेतकृत्यं च चकार सपरिच्छदः ॥४९१॥ जातुचित्सूर्यपाकायां रसवत्यां कुतूहली । हुण्डिकाय नृपः शालिप्रमुखं सर्वमार्पयत् ॥४९२॥ स स्थालीरातपे न्यस्य विद्यां वैवस्वतीं स्मरन् । चक्रे रसवतीं दिव्यामशेषरसपेशलाम् ॥४९३॥ ३ १. श्रमेण नम्रमुखम् । २. समीपे स्थितम् । ३. स त्वां तत् इति प्रत्यन्तरे । ४. सूर्यसंबन्धिनीम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy