SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ [२४१ षष्ठः सर्गः । नलेन गजो वशीकृतः ॥] नलो नागमभाषिष्ट लेष्टुना प्रणिहत्य तम् । रे ! रे ! मातङ्ग एवासि स्त्रीबालादीनुपद्रवन् ॥४६८॥ तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव । अयमग्रेऽस्मि ते दानवृष्ट्यवग्रहदुर्ग्रहः ॥४६९॥ इत्युक्तः सोऽप्यधाविष्ट क्रोधादन्धंभविष्णुदृक् । साक्षाद्विन्ध्य इवोत्पातवातै—तो नलं प्रति ॥४७०॥ धावञ्जातु भ्रमञ्जातु लेष्टुभिर्जातु ताडयन् । पतञ्जातु लुठञ्जातु वचोभिर्जातु भर्त्सयन् ॥४७१॥ जातु पुच्छान्तमालम्ब्य चक्रवर्द्रमयन्मुहुः । नलस्तैस्तैः प्रकारैस्तं खेदयामास दन्तिनम् ॥४७२॥ युग्मम् । हर्षकोलाहलैर्जातु जातु हाहारवोत्करैः । जनानां पश्यतामासीच्छब्दाद्वैतं पुरे तदा ॥४७३॥ खिन्नस्यापि भृशं कोपात्कुञ्जरस्यानुधावतः । क्षिपति स्म पुरः क्षिप्रमुत्तरीयपटं नलः ॥४७४।। पपात पुरतो रूपमित्यस्मिन्परिणामिनः । नताग्रवपुषः स्कन्धमास्कन्दद् दन्तिनो नलः ॥४७५।। ततः कण्ठवरत्रायां प्रक्षिप्तचरणौ नलः । आस्फालयन्करैः कुम्भे कुञ्जरं तमसान्त्वयत् ॥४७६॥ पश्चादेत्य प्रतीकारैरादायोल्लालितां शृणिम् । नलो दन्तावलेन्द्रं तमन्वालानमचालयत् ॥४७७॥ मायाकुब्जः सुरः कोऽपि किमेष भुवमागतः ? । यश्चक्रे हस्तिमल्लस्य प्रतिमल्लमिमं वशे ॥४७८॥ इत्यन्तर्विस्मितो राजा स्वयमारुह्य गोपुरम् । रत्नदाम न्यधात्कण्ठे तस्याधस्तादुपेयुषः ॥४७९।। कुब्जावदानमेदस्विहर्षबाष्पायितेक्षणाः । बभूवुर्जयशब्दैकमुखराः सर्वतः प्रजाः ॥४८०॥ १. लेष्टुटुंढमृत्पिण्डः । २. अवग्रहः प्रतिबन्धः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy