SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४०] [पाण्डवचरित्रमहाकाव्यम् । नलस्य सुंसुमारपुरे गमनम् ॥ किमेतदिति सञ्चिन्त्य यावत्तस्थौ क्वचिन्नलः । तावन्निर्मुक्तदृग्मार्गः प्रतिकारैरपि द्रुतम् ॥४५५॥ तिर्यक्प्रवृत्तदानाम्भःस्नपितप्रतिमानकः । स्वच्छायायामपि क्रोध(ध)क्रूरः परिणमन्मुहुः ॥४५६।। नभस्वन्तमपि स्वैरं विधुन्वन्नासनस्पृशम् । मुहुविहङ्गमस्यापि धावन् विस्फुरितः पुरः ॥४५७॥ मठा-ऽट्टालक-शाला-ऽट्ट-मन्दिरादीनि पातयन् । कल्पान्तमातरिश्वेव भञ्जन्नुद्यानपादपान् ॥४५८॥ प्राकारगोपुरारूढर्वीक्षितश्चकितैर्जनैः ।। निशिताऽऽराकरैः पश्चादारिकैः परिवारितः ॥४५९॥ दत्तझम्पान् द्रुमान्तेभ्यो हिंसन्हस्तिपकाग्रणीन् । अग्रतः कृष्टबालस्त्रीवृद्धः कौतुकिभिर्नरैः ॥४६०॥ पूत्कारसीकराऽऽसारक्तृप्तझञ्झासमीरणः । धूननोद्भूतसिन्दूरपूरपिञ्जरिताम्बरः ॥४६१॥ सप्तश्रोतःस्रवद्दानपङ्किलीकृतभूतलः । गतो मातङ्गरूपेण समवर्तीव मूर्त्तताम् ॥४६२॥ दूरतो दधिपर्णेन राज्ञाऽनुगतपद्धतिः । नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः ॥४६३॥ नवभिः कुलकम् । तं कस्मिन्नपि नागेन्द्रं वशीकर्तुमनीश्वरे । ऊर्वीकृत्य भुजं राजा व्याजहारेति भारतीम् ॥४६४॥ वारणेन्द्रमिदं व्यालं यः कोऽपि कुरुते वशे । अवश्यं तस्य वश्यत्वं लक्ष्मीमेतां नयाम्यहम् ॥४६५॥ इत्युक्तवति भूपाले नलः कल्लोलिविक्रमः । अस्पृशन्निव पादाभ्यां भुवं वेगादधावत ॥४६६॥ निवर्तस्व निवर्तस्व कुब्ज ! माऽऽविश माऽऽविश । इति लोकनिषिद्धोऽपि नलः सिंह इवाविशत् ॥४६७॥ 15 20 25 १. हस्तिपकैः । २. गण्डस्थलाधोभागः । ३. कल्पान्तवायुः । ४. यम इव ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy