________________
षष्ठः सर्गः सर्पस्य रुपपरावर्तः ॥ ]
ततोऽपश्यदहिस्थाने नलः कन्दलितप्रभम् । तम:पद इवोद्योतं दिव्यमूर्ति पुरःसरम् ॥४४१॥ जल्पति स्म स भूपालं कथं वत्स ! विषीदसि ! । हितैकबद्धहेवाकस्तवास्मि निषधः पिता ॥ ४४२॥ तदा व्रतमुरीकृत्य तपस्तप्त्वाऽतिदुस्तरम् । कृतानशनकर्माऽन्ते ब्रह्मलोके सुरोऽभवम् ॥४४३॥ परिज्ञायावधिज्ञानादिमं ते व्यसनोदयम् । आयातोऽहमिदं सर्वं मम मायाविजृम्भितम् ॥ ४४४॥ तदात्मनीनमेवैतद्विद्धि वैरूप्यमात्मनः ।
अनेनानुपलक्ष्यं त्वां नोपद्रोष्यन्ति शत्रवः || ४४५ ॥ अधुनैव व्रतादानस्पृहामपि हि मा कृथाः । भोक्तव्यमेव तेऽद्यापि तावदेवावनीतलम् ॥४४६॥ यदा वत्स ! परिव्रज्यासमयस्ते भविष्यति । ज्ञापयिष्यामि दैवज्ञ इवाभ्येत्य स्वयं तव ॥४४७॥ फलं तु श्रीफलस्येदमिमां चापि करण्डिकाम् । गृहाण द्वयमप्येतत्कामं रक्षेः प्रयत्नतः ॥ ४४८॥ यदा च रूपमास्थातुमात्मीयं ते स्पृहा भवेत् । निर्भिद्य श्रीफलं दिव्यदुकूलानि तदाऽऽकृषेः ॥४४९॥ अस्याः करण्डिकायाश्च हाराद्याभरणोत्करम् । क्षणादमीभिरामुक्तैर्निजं रूपमवाप्स्यसि ||४५० ॥ युग्मम् । इत्युक्त्वा तद्द्वयं देवः समर्प्य पुनरब्रवीत् । किं भ्राम्यसि वने ? स्थानं नयामि त्वां यियासितम् ॥४५१॥ नलोऽप्युवाच मां तात ! सुंसुमारपुरे नय ।
इति जल्पन् स्वमैक्षिष्ट तस्य द्वारि पुरस्य सः ॥ ४५२|| यावच्चचाल विस्मेरमानसः पुरसम्मुखम् । तावद्बहलम श्रौषीज्जनकोलाहलं नलः ॥ ४५३॥ पलायध्वं पलायध्वं सर्वतस्त्वरितं जनाः । क्षणादित्यश्ववाराणां ध्वनिं शुश्राव नैषधिः ॥ ४५४॥
[ २३९
5
10
151
20
25