________________
10
२३८]
[ पाण्डवचरित्रमहाकाव्यम् । वने सर्पमिलनम् ॥ ऐक्ष्वाक ! नलभूपाल ! जगत्यार्तेकबान्धव ! । दावाग्निदह्यमानाङ्गं महात्मन् रक्ष रक्ष माम् ॥४२८।। तस्या वाचोऽनुसारेण नलः प्रहितलोचनः ।। वल्लीवलयमध्यस्थं ददर्शकं भुजङ्गमम् ॥४२९॥ तं सोऽभ्यधाद्भुजङ्गेन्द्र ! मम नामा-ऽन्वयौ कथम् । जानासि त्वं कथं चेत्थं ब्रूषे मनुजभाषया ? ॥४३०॥ आह स्माहिर्मनुष्योऽहमभूवं पूर्वजन्मनि । तत्संस्काराद्भवेऽप्यस्मिन् मानुषी मे सरस्वती ॥४३१।। निर्बाधमवधिज्ञानमप्यस्ति मम भूपते ! । करस्थमिव पश्यामि तेन विश्वं चराचरम् ॥४३२॥ तत् त्रायस्व जगत्त्राणसत्र ! धूमध्वजादितः । त्वां प्रत्युपकरिष्यामि निरपेक्षमपि क्षणात् ॥४३३॥ तेनेत्युक्ते भुजङ्गेन नलः कारुण्यनीरधिः । अन्तर्लतावितानं स्वमुत्तरीयमलम्बयत् ॥४३४॥ स भोगी वपुषा वृक्षं वल्लीव तदवेष्ट्यत् । उदपानाद्वरत्रावच्चकर्षोर्ध्वं च नैषधिः ॥४३५।। भूतले तृणकाष्ठादिरचिते तममुञ्चत । यावदुर्वीपतिस्तावदश्यते स्म करेऽमुना ॥४३६॥ नलः क्षोणीतले पाणिमाच्छोट्य तमपातयत् । विषादाच्चाब्रवीत् सेयं तव प्रत्युपकारिता ॥४३७॥ यद्वा हन्यान्मृगारिस्तं य एवोन्मीलयेदृशौ । य एव पाययेत्क्षीरं त्वज्जात्याऽपि स दश्यते ॥४३८॥ इत्यादि निगदन्नेव तदीयविषवैभवात् । अधिज्यधनुराकारं कलयामासिवान् नलः ॥४३९॥ तया कुब्जतयाऽत्यन्तं राजा वैराग्यमीयिवान् । जीवितव्यानपेक्षोऽभूद् व्रतादानमनाः क्षणात् ॥४४०॥ १. वरत्रा चर्ममयरज्जुः ।
15
25