________________
[२३७
षष्ठः सर्गः । नलकृतो दमयन्त्यास्त्यागः ॥]
तथा कुरुत केनापि यथोपद्रूयते नहि । मार्गं च विन्दति प्रातरसौ स्वजनवेश्मनः ॥४१५॥ इत्युदीर्य मुहुर्जायां पश्यन्नावृत्तकन्धर । गच्छति स्म नलस्तावद् यावदा(द)गाददृश्यताम् ॥४१६।। वन्यसत्त्वोद्भवः शङ्के स्यादस्याः कोऽप्युपद्रवः । तल्लतावृत एवैतां रक्षाम्येकाङ्गशायिनीम् ॥४१७॥ प्रबोधसमये प्रातर्गमिष्यामि यथारुचि । गच्छत्वेषाऽपि केनापि मदावेदितयोः पथोः ॥४१८।। इत्यालोच्य निवृत्त्याशु नलस्तस्थौ लतान्तरे । तथाभूतां च तां दृष्ट्वा पुनरन्तरचिन्तयत् ॥४१९।। अहो नलस्य शुद्धान्तमसूर्यंपश्यमीदृशम् । वासवेश्मनि शेते च कीदृश्युच्चूलशालिनी ॥४२०॥ हा दुरात्मन्नल ! क्षिप्रं कथं यासि न भस्मसात् । इत्याद्यालोचयत्यस्मिन् विरराम विभावरी ॥४२१॥ निलीनमिव तत्कालं नलस्य मनसोऽन्तरे । सर्वतोऽपि दिगन्तेषु तुच्छत्वमगमत् तमः ॥४२२॥ उदेति न रविर्यावद्यावज्जागर्ति न प्रिया । साश्रुनेत्रो नलस्तावज्जगाम त्वरितक्रमम् ॥४२३॥ गच्छन्नच्छिन्नसञ्चारमथ तस्मिन्वनान्तरे । धूमस्तोमं स वद्धिष्णुं विन्ध्यस्पर्द्धिनमैक्षत ॥४२४॥ भीमास्तदन्तरुत्तस्थुर्चालाः कालानलोपमाः । निर्गता रत्नगर्भाया गर्भरत्नप्रभा इव ॥४२५॥ क्षणेन व्यानशे सर्वं वनं तद्दावपावकः । मानसं कोशलाभर्तुरिव शोकहुताशनः ॥४२६॥ जन्तूनां दह्यमानानामाक्रन्दानुपकर्णयन् । मानुषीं गिरमश्रौषीन्नलो गच्छन्स्त(न्त)दन्तिकम् ॥४२७॥
१. पृथिव्याः ।