________________
षष्ठः सर्गः । नलस्य विचारणा ॥ ]
कल्पद्रुमभ्रमान्मुग्धे श्रिताऽसि विषपादपम् । तदवाप्नुहि निःशेषं फलं तस्यात्मकर्मणः ॥३८८।। धिग् धातः ! कुर्वता मूढ ! वैदर्भीनलसङ्गमम् । हंसी- काकोलयोः कोऽयं त्वयाऽऽकारि समागमः ? ॥ ३८९ ॥ यदि वा सर्वदैवासि त्वमनौचित्ययोगकृत् । अमेध्यदोहदश्चक्रे केतक्या ( क्या:) कथमन्यथा ? ॥ ३९०॥ इत्याकृष्य भुजं भूयो मन्दं मन्दं नलोऽवदत् । देवीक्रान्तमिदं वासश्छेत्तुं बाहो ! प्रसीद मे || ३९१॥ यद्वा पूर्वं त्वमेवास्या व्यापृतोऽसि करग्रहे । जातस्त्वमेव सर्वाङ्गसौरभ्यप्रथमातिथिः ॥३९२॥ तेन मन्येऽहमेतस्यां दाक्षिण्यां दक्षिणस्य ते । सदा संधीचि किं नाम नलेऽसि त्वमदक्षिणः ? ॥ ३९३ ॥
[ २३५
तद्विधायानुरोधं त्वमसिधेनुमलङ्कुरु । क्षुरिकायामिति स्वैरं क्षितीशः पाणिमक्षिपत् ॥ ३९४॥ तामूचे च मया कोशः समं राज्येन तत्यजे । तैत्ते केयं मदीयायाः कोशेऽप्यत्यागवासना ? ॥३९५॥ मम पाणिग्रहे यद्वा त्वमपि त्यागशङ्किनी । मूढासि न हि भैमीव भवत्यप्यङ्घ्रिशृङ्खला ॥३९६॥ इत्याकृष्य स्वतेजोभिस्तमः कल्पान्तशिल्पिभिः । हसन्तीमिव तां चक्रे पटसंश्लेषिणीं नलः ॥३९७|| पुनर्जगाद तां देवीक्रान्तस्य मम वाससः । छेदाय क्षुरिके ! देवि ! प्रसीदायं कृतोऽञ्जलिः ॥ ३९८ ॥ यद्वा स्त्रीजातिकारुण्यविक्लवा न व्यवस्यति (सि) । कारुण्यं किं हि निस्त्रिंशसुतायास्तव ? कथ्यताम् ॥३९९॥ इति चिच्छेद मेदस्विपतदश्रुकणाङ्कितम् । मन्युसम्भारनिर्भिन्नचेताश्चेलाञ्चलं नलः ॥४००॥
१. विष्ठायाः दोहदः । २. सहचारिणि । ३. मामकयास्तव केयं तत् इति प्रतिद्वयपाठः ।
5
10
15
20
25