________________
[२३३
षष्ठः सर्गः । नलस्य वनवासः ॥]
सह प्रस्थास्नवः कामं कुलामात्याः क्षमाभृता । तैस्तैर्वाक्यैः समं पौरैय॑वर्त्यन्त कथञ्चन ॥३६२॥ दुःखादभ्येत्य वैदा विभाव्य मुखमुज्ज्वलम् । पौर्यः पुनर्ययुर्धाम तत्सतीत्वविकस्वराः ॥३६३।। भीमात्मजानिभाल्लक्ष्मीमिवादाय नलोऽचलत् । गतेऽस्मिन्सर्वमप्यासीन्निर्लक्ष्मीकं कुतोऽन्यथा ? ॥३६४॥ पुरीपरिसरारामचारिमाद्यैविनोदयन् । विदर्भदुहितुश्चक्षुर्नलोऽगच्छत्पुरः पुरः ॥३६५॥ भैम्याः पुराऽभवत्प्रीतिरातपत्त्रैर्न तावती । पत्या धृतोत्तरीयायाः सातपे पथि यावती ॥३६६॥ पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् । निर्व्याजं वीजयामास स्वेदिनी सिचयाञ्चलैः ॥३६७॥ क्वापि श्रमेण विश्रान्तां संवाह्य चरणौ चिरम् । पार्थिवः प्रार्थयाञ्चक्रे पुरस्ताद्गमनाय ताम् ॥३६८॥ तां क्वचिन्मार्गखेदेन तरुच्छायनिषादिनीम् । नलोऽब्जिनीदलानीतं पयः शीतमपाययत् ॥३६९॥ क्वचिच्च सत्त्वमालम्ब्य पादसंवाहनोद्यता । भूपालेन बलाद् भैमी स्मितपूर्वमवार्यत ॥३७०।। अतीयतुः फलैस्तैस्तैस्तौ मध्याह्न कृताह्निको । सेव्यमानौ सरस्तीरे शिशिरैरूमिमारुतैः ॥३७१॥ अन्योऽन्यनिबिडाऽऽश्लेषवीतचङ्क्रमणक्लमौ । तौ लतामण्डपे क्वापि निन्यतुः पथि यामिनीम् ॥३७२॥ अन्येधुरुन्मदोत्फालव्यालव्याकुलितोदरम् । एकच्छत्रद्रुमच्छायामीयतुस्तौ महाटवीम् ॥३७३॥ तामवस्थामिवोष्णांशुस्तयोरीक्षितुमक्षमः । विधौ क्रोधादिवाताम्रो जगामास्तनगान्तरम् ॥३७४॥ १. निभात्-मिषात् । २. सौन्दर्यम् । ३. सर्पः ।