________________
षष्ठः सर्गः । कूबेरस्य धृष्टता ॥]
[२३१ अभिषिञ्च स्वयं राज्ये भ्रातरं कूबरं वरम् । प्रसह्य हतराज्यस्तु बाढमुत्प्रासयिष्यसे ॥३३५।। गिरमित्यादिकामुच्चैरुच्यमानां नलस्तया । न विन्दति स्म गम्भीरवेदीव निशितां शृणिम् ॥३३६॥ अथाप्तपुरुषैभैमीनिदेशाज्जगदे नलः । वृथैव पृथिवी किन्नु हार्यते कृच्छ्रतोऽर्जिता ? ॥३३७।। किं न द्यूतं परित्यज्य जीवयस्यनुजीविनः ? । शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥३३८॥ इत्येषामप्यनादृत्य वचश्चिक्रीड नैषधिः ।। विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥३३९॥ नलस्ततोऽवरोधेन समं भैमीमहारयत् । तारकाभिः सह प्रातः कौमुदीमिव चन्द्रमाः ॥३४०॥ हारयामास भूपालः शरीराभरणान्यपि । वसन्तस्य व्ययारम्भे कुसुमानीव चम्पकः ॥३४१॥ जग जगतीनाथश्रीलाभे कूबरोऽधिकम् । दुर्धराः सरितामोघाः प्राप्तौ ह्यम्भोदसम्पदः ॥३४२॥ राज्यभ्रंशे भुवो भर्तुः प्रजाश्चक्रन्दुरुच्चकैः । कुलायभूरुहो भङ्गे पत्रिणामिव पङ्क्तयः ॥३४३॥ कूबरो नलमित्यूचे मदीयां मुञ्च मेदिनीम् । पिता दत्ते स्म ते राज्यं ममेदानीं तु देवनः ॥३४४॥ गर्वं कमपि माकार्षीन दूरे दो तां श्रियः । इत्युक्त्वाऽम्बरखण्डैकमात्र श्रीरचलन्नलः ॥३४५॥ मया जिताऽसि मा यासीर्मदन्तःपुरमाश्रय । नलानुयायिनीं भैमीमित्यवोचत कूबरः ॥३४६॥ ततस्तमूचिरे पौराः किमेतां प्रतिषिध्यसि ? । मृत्युमाप्नोति शार्दूल्याः पतीयन् मृगधूर्तकः ॥३४७॥ १. दुर्धरहस्तीव । २. 'नाथ:' प्रतिद्वये । ३. नीडवृक्षस्य निवासवृक्षस्येति यावत् ।