SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 २३० ] [ पाण्डवचरित्रमहाकाव्यम् । नलस्य कुबेरेण सह द्यूतक्रीडा ॥ प्रतापमिव कल्पाग्निसम्पन्नमसहिष्णवः । ममज्जुर्द्विषदुर्वीशश्रियस्तस्यासिवारिणि ॥३२२॥ स सैन्यैः साधयामास भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव गगनार्धमशेषतः ॥ ३२३॥ भरतार्धाधिराजस्य राजानस्तस्य तेनिरे । सम्भूय भूरिसम्भारमभिषेकं हरेरिव ॥ ३२४॥ कूबरः क्रूरचेतास्तु तस्य राज्याभिलाषुकः । रन्ध्राण्यन्वेषयामास मृगारेरिव जम्बुकः ॥ ३२५॥ नलस्तु सह तेनैव बान्धवप्रीतिबन्धुरः । नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ ३२६॥ अन्येद्युस्तु गेम-चर-बन्ध-मोक्षसुधीरपि । कूबरं देवनैर्दैवाज्जेतुं नालं नलोऽभवत् ॥३२७॥ नलस्य काङ्क्षितो नाक्षः पतति स्म कथञ्चन । मारयामास तच्छारीन्भूयोभूयस्तु कूबरः ॥३२८॥ नगरग्रामखेटादि हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे शशीव विशदेतरे ॥३२९॥ विषसाद जनः सर्वः कूबरस्तु मुदं ययौ । दुःखी ध्वान्ते हि लोकोऽयमुलूकः पुनरुन्मदः ॥३३०॥ आकर्ण्य लोकहाकारकोलाहलमुदित्वरम् । अभ्यधान्नलमभ्येत्य सभयं भीमनन्दिनी ॥ ३३१॥ स्वामिन्कोऽयं विपर्यासः सम्प्रत्यभिनवस्तव । विनोदमात्रमेवैतद्दुरोदरमुदीरितम् ॥३३२॥ त्वादृशा अपि चेदस्मिन् मज्जेयुर्व्यसनार्णवे । ततस्तारयिता कः स्यान्मज्जतां मन्दमेधसाम् ? ||३३३|| प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः । इयत्यपि गते तस्मादपाकुरु दुरोदरम् ॥३३४|| १. (गम - चरौ तु द्यूतप्रभेदौ) गमे च चरे च बन्धे च मोक्षे च निपुणः । २. कृष्णे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy