SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२८] [पाण्डवचरित्रमहाकाव्यम् । मार्गे मुनिदर्शनम् ॥ रम्भोरु ! तिमिरैः किञ्चित्कारणं नावगम्यते । निवेदिते नलेनेति भैमी भालं स्वमामृशत् ॥२९६॥ तदैवाविरभूत् तस्यास्तिग्मदीधितिबान्धवः । त्रासयन् सैन्यलोकस्य लोचने तिलकोऽलिके ॥२९७॥ ततोऽपृच्छन्नलस्तन्वि ! किमेतदिति विस्मितः । साऽप्युवाच मम स्वामिञ्जन्मसब्रह्मचार्यसौ ॥२९८॥ तदुद्योतेन मत्तालिकुलदंशत्रुतासृजम् । तौ मुनि कञ्चिदैखेतां दम्पती प्रतिमास्थितम् ॥२९९॥ गण्डकण्डूमपाकर्तुं केनचिद् वनदन्तिना । घट्टितोऽयं स्फुटं ध्यानस्थेमवान्स्थाणुशङ्कया ॥३००॥ तदीयमदसंसक्तै-द्विरेफैरप्यनुद्रुतः । समाधे यमभ्रश्यत् तद्वहत्यस्य कस्तुलाम् ? ॥३०१॥ इत्यन्तस्तर्कयन्तौ तमाधाय निरुपद्रवम् । उल्लसत्प्रीतिकल्लोलविक्लवौ तौ प्रणेमतुः ॥३०२॥ त्रिभिर्विशेषकम् । प्रतिमामुपसंहृत्य मुहूर्तेन महामनाः । जगाद स मुनिर्ज्ञानी धर्मस्थेमकरी गिरम् ॥३०३।। न धर्मो नूतनः कोऽपि युवयोरुपदिश्यते । ययोर्भूतं भवद्भाविजन्मधर्मैकबन्धुरम् ॥३०४॥ चतुर्विंशतिमुद्दिश्य दमयन्ती जिनेश्वरान् । तपश्चक्रे ददौ रत्नतिलकांश्च पुराभवे ॥३०५॥ तेनास्याः शाश्वतं भालस्थलालङ्करणं नवम् । अस्मिञ्जन्मनि मार्तण्डविडम्बी तिलकोऽभवत् ॥३०६॥ जन्मान्तरे तथा सिक्तः कुमार ! भवताऽप्यसौ । धर्मद्रुः फलितः शश्वज्जज्ञे तैस्तैः फलैर्यथा ॥३०७॥ अधिगम्याऽऽर्हतं धर्ममागामिन्यपि जन्मनि । सर्वकल्याणकल्लोलपारावारौ भविष्यथः ॥३०८॥ 15 25 १. 'भासयन्' एकप्रति । २. रुधिरम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy