________________
षष्ठः सर्गः । नलस्य दमयन्त्यासह कोशलां प्रति गमनम् ॥ ] प्रदक्षिणीकृते वह्नौ हस्तमोचनपर्वणि ।
[ २२७
भीमो नलाय दत्ते स्म रत्नाश्वेभादिकं बहु ॥ २८३॥ निषधापतिरादाय सवधूकमथात्मजम् । भीमेनानुगतो हर्षादचलत् कोशलां प्रति ॥ २८४॥ काञ्चिदप्यवनीं गत्वा निदेशात् कोशलेशितुः । निवृत्तः कुण्डिनाधीशस्तनूजामन्वशादिति ॥ २८५॥ व्यसनेऽपि भवेर्वत्से पतिवर्त्मानुवर्तिनी । पतिमेव परं प्राहुर्दैवतं हि मृगीदृशाम् ॥२८६॥ प्रतिगृह्य नमन्मौलिरनुशिष्टिमिमां पितुः । नलस्य रथमारुह्य प्रतस्थे भीमनन्दिनी ॥ २८७॥ नलः कान्तावपुःस्पर्शलालसः किल वर्त्मनि । स्यन्दनं सादिनाऽवन्यामुद्धातिन्यामनाययत् ॥२८८॥ ज्ञातेऽप्यगादिकप्रश्ने गद्गदे तद्वचःप्रियः । किं ब्रवीषीति भूयोऽपि भैमीं वक्ति स्म नैषधिः ॥ २८९ ॥ अनुरागोनले भैम्या दिनान्ते वा ममाधिक: ? । इति ज्ञातुमिवागच्छत्सन्ध्या सैन्यस्य गच्छतः ॥ २९०॥ त्रपाबन्धिग्रहात्काममाकर्षन्ती विदर्भजाम् । आगात्तमी तमः सैन्यैः सखीव हृदयङ्गमा ॥२९१॥ नवं नलकरस्पर्शचुम्बनालिङ्गनादिकम् । वेत्रीव दर्शयन्भैम्या जजृम्भे तिमिरोत्करः ॥ २९२॥ तथाऽपि पथि नाऽऽवासानग्रहीन्निषधापतिः । स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥२९३॥ नलेन दमयन्त्या च व्रजद्भ्यामथ वर्त्मनि । कर्णामृतमिवाश्रावि रोलम्बतुमुलध्वनिः ॥ २९४ ॥ नलं भैमी बभाषेऽथ नाथ ! नात्र विभाव्यते । रम्या द्रुमावलिः काचित् तत्किं कोलाहलोऽलिनाम् ? ॥ २९५ ॥
१. विषमायाम् । २. पर्वतादिसंबन्धिप्रश्ने । ३. तस्या वचः प्रियं यस्य । ४. भ्रमरः ।
5
10
15
20
25