________________
5
10
15
20
२२६ ]
25
[ पाण्डवचरित्रमहाकाव्यम् । दमयन्तीपाणिग्रहणम् ॥
एतौ च पुरतोऽमुष्य तनयौ नल- कूबरौ । शम्भोरसूययेवाभूत् द्विमूर्तिरिव मन्मथः ॥२७०॥ सारिणीवारिवच्चक्षुस्तस्याः सिञ्चन्नृपद्रुमान् । पपात बृहदावाले शाखिनीव नले चिरम् ॥ २७९ ॥ उच्चरन्प्रौढरोमाञ्चमथ सैतदचिन्तयत् । देवः किमागतः कामः स्वयमेव स्वयंवरम् ? ॥ २७२ ॥ अनेकविरहिस्त्रैणहत्यापातकिनोऽथवा । कुतस्तस्येदृशी मूर्तिर्मालतीदलकोमला ? ॥२७३॥ प्रकामकमनीयेऽस्मिन्निर्मितेऽम्भोजभूर्भुवम् । अनुरूपगुणग्रामनिर्माणे विक्लवोऽभवत् ॥२७४॥ नमोऽस्तु विधये तस्मिन्नोपकारो ममापरः । कृतार्थयितुकामेन येन मामयमादधे ॥२७५॥ चिन्तयन्तीदमानन्दाद् दमयन्ती सवेपथुः । वरमालां निचिक्षेप नलस्य गलकन्दले ॥ २७६ ॥ तत्पाणिनखमाणिक्यमयूखैररुणीकृता । गुम्फितेव बभौ पुष्पैः साऽऽनुरागद्रुमोद्भवैः ॥२७७॥ उल्लङ्घ्य भूभृतः सर्वान् वैदर्भीसरिताश्रिते । नलाम्भोधौ बभूवुस्ते श्यामास्तत्सैवलैरिव ॥२७८॥ भीमस्य निषधस्यापि स्वजनप्रीतिगङ्गया । द्विषदप्रीतिकालिन्द्या तत्प्रयागीयितं सदः ॥ २७९॥ कोशलेश्वर-भीमाभ्यां यथामनसमुच्चकैः । आरभे नलवैदर्भ्योर्विवाहमहिमोत्सवः ॥२८०॥ अतःप्रभृति जन्मान्तं प्राणा अपि ममैव ते । इतीव दक्षिणं पाणिमाददातामिमौ मिथः ॥ २८१॥ मन्ये विलीय निर्गत्य पाणिपीडनपर्वणि । तयोरगच्छतामैक्यं मनसी स्वेदकैतवात् ॥२८२॥ १. ब्रह्मा । २. वरमाला । ३. नृपान् पक्षे पर्वतान् ।